Skip to main content
YatraBeyondYatraBeyond

Vrat Kathas

Vrat KathaVishnu JiDraft

Satyanarayan Vrat Katha

श्रीव्यास उवाच । एकदा नैमिषारण्ये ऋषयः शौनकादयः । पप्रच्छुर्मुनयः सर्वे सूतं पौराणिकं खलु ॥ ऋषय ऊचुः । व्रतेन तपसा किं वा प्राप्यते वाञ्छितं फलम् । तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥ सूत उवाच । नारदेनैव सम्पृष्टो भगवान् कमलापतिः । सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥ एकदा नारदो योगी परानुग्रहकाङ्क्षया । पर्यटन् विविधान् लोकान् मर्त्यलोकमुपागतः ॥ ततो दृष्ट्वा जनान्सर्वान् नानाक्लेशसमन्वितान् । नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभिः ॥ केनोपायेन चैतेषां दुःखनाशो भवेद् ध्रुवम् । इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥ तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् । शङ्ख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ॥ दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे । नारद उवाच । नमो वाङ्गमनसातीतरूपायानन्तशक्तये । आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने ॥ सर्वेषामादिभूताय भक्तानामार्तिनाशिने । श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ॥ श्रीभगवानुवाच । किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते । कथयस्व महाभाग तत्सर्वं कथायामि ते ॥ नारद उवाच । मर्त्यलोके जनाः सर्वे नानाक्लेशसमन्विताः । ननायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥ तत्कथं शमयेन्नाथ लघूपायेन तद्वद । श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥ श्रीभगवानुवाच । साधु पृष्टं त्वया वत्स लोकानुग्रहकाङ्क्षया । यत्कृत्वा मुच्यते मोहत् तच्छृणुष्व वदामि ते ॥ व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् । तव स्नेहान्मया वत्स प्रकाशः क्रियतेऽधुना ॥ सत्यनारायणस्यैव व्रतं सम्यग्विधानतः । कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् । तच्छ्रुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥ नारद उवाच । किं फलं किं विधानं च कृतं केनैव तद् व्रतम् । तत्सर्वं विस्तराद् ब्रूहि कदा कार्यं व्रतं प्रभो ॥ श्रीभगवानुवाच । दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ॥ सौभाग्यसन्ततिकरं सर्वत्र विजयप्रदम् । यस्मिन् कस्मिन् दिने मर्त्यो भक्तिश्रद्धासमन्वितः ॥ सत्यनारायणं देवं यजेच्चैव निशामुखे । ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥ नैवेद्यं भक्तितो दद्यात् सपादं भक्ष्यमुत्तमम् । रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ॥ अभावे शालिचूर्णं वा शर्करा वा गुडस्तथा । सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥ विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनैः सह । ततश्च बन्धुभिः सार्धं विप्रांश्च प्रतिभोजयेत् ॥ प्रसादं भक्षयेद् भक्त्या नृत्यगीतादिकं चरेत् । ततश्च स्वगृहं गच्छेत् सत्यनारायणं स्मरन् ॥ एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद् ध्रुवम् । विशेषतः कलियुगे लघूपायोऽस्ति भूतले ॥ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां प्रथमोऽध्यायः ॥

5 lines · meanings in 0 languagesRead →
Vrat KathaVishnu JiDraft

Dev Uthani (Prabodhini) Ekadashi + Tulsi Vivah Katha

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥

8 lines · meanings in 0 languagesRead →
Vrat KathaShiv JiDraft

Mahashivratri Vrat Katha

लोमश उवाच आसीत् पुरा महारौद्रश्चण्डो नाम दुरात्मवान् । क्रूरसंगो निष्कृतिको भूतानां भयवाहकः जालेन मत्स्यान् दुष्टात्मा घातयत्यनिशं खलु । भल्लैमृर्गाञ्छ्वापदांश्च कृष्णसारांश्च सल्लकान् खड्गांश्चैव च दुष्टात्मा दृष्टवा कांश्चिच्च पापवान् । पक्षिणोऽघातयत् क्रुद्धो ब्राह्मणांश्च विशेषतः लुब्धको हि महापापो दुष्टो दुष्जनप्रियः । भार्या तथाविधा तस्य पुष्कसस्य महाभया एवं विहरतस्तस्य बहुकालोऽत्यवर्तत । गते बहुतिथे काले पापौघनिरतस्य च

10 lines · meanings in 2 languagesRead →
Vrat KathaKrishna JiDraft

Janmashtami Vrat Katha

निशीथे तम उद्भूते जायमाने जनार्दने । देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीद् यथा प्राच्यां दिशि इन्दुरिव पुष्कलः ॥ तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शंखगदार्युदायुधम् । श्रीवत्सलक्ष्मं गलशोभि कौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ॥ महार्हवैदूर्यकिरीटकुण्डल त्विषा परिष्वक्त सहस्रकुन्तलम् । उद्दाम काञ्च्यङ्गद कङ्कणादिभिः विरोचमानं वसुदेव ऐक्षत ॥ स विस्मयोत्फुल्ल विलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस्तदा । कृष्णावतारोत्सव संभ्रमोऽस्पृशन् मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ अथैनमस्तौदवधार्य पूरुषं परं नताङ्गः कृतधीः कृताञ्जलिः । स्वरोचिषा भारत सूतिकागृहं विरोचयन्तं गतभीः प्रभाववित् ॥

6 lines · meanings in 0 languagesRead →
Vrat KathaParvati JiDraft

Hartalika Teej Vrat Katha

नारद उवाच । विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् । अद्भुतेयं कथा प्रोक्ता शङ्करस्य महात्मनः ॥ १॥ भस्मीभूते स्मरे शम्भुतृतीयनयनाग्निना । तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः ॥ २॥ किं चकार ततो देवी पार्वती कुधरात्मजा । गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे ॥ ३॥ ब्रह्मोवाच । श‍ृणु तात महाप्राज्ञ चरितं शशिमौलिनः । महोतिकारकस्यैव स्वामिनो मम चादरात् ॥ ४॥ यदादहच्छम्भुनेत्रोद्भवो हि मदनं शुचिः । महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः ॥ ५॥ तेन शब्देन महता कामं दग्धं समीक्ष्य च । सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला ॥ ६॥ तेन शब्देन हिमवान्परिवारसमन्वितः । विस्मितोऽभूदतिक्लिष्टः सुतां स्मृत्वा गतां ततः ॥ ७॥ जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम् । रुदन्तीं शम्भुविरहादाससादाचलेश्वरः ॥ ८॥ आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् । मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत् ॥ ९॥ क्रोडे कृत्वा सुतां शीघ्रं हिमवानचलेश्वरः । स्वमालयमथानिन्ये सान्त्वयन्नतिविह्वलाम् ॥ १०॥ अन्तर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा । विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित् ॥ ११॥ पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा । पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ॥ १२॥ निनिन्द च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् । सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा ॥ १३॥ स्वपती च पिबन्ती च सा स्नाती गच्छती शिवा । तिष्ठन्ती च सखीमध्ये न किञ्चित्सुखमाप ह ॥ १४॥ धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च । इति ब्रुवन्ती सततं स्मरन्ती हरचेष्टितम् ॥ १५॥ एवं सा पार्वती शम्भुविरहोत्क्लिष्टमानसा । सुखं न लेभे किञ्चिद्वाब्रवीच्छिवशिवेति च ॥ १६॥ निवसन्ती पितुर्गेहे पिनाकिगतचेतना । शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः ॥ १७॥ शैलाधिराजोऽप्यथ मेनकापि मैनाकमुख्यास्तनयाश्च सर्वे । तां सान्त्वयामासुरदीनसत्त्वा हरं विसस्मार तथापि नो सा ॥ १८॥ अथ देवमुने धीमन्हिमवत्प्रस्तरे तदा । नियोजितो बलभिदागमस्त्वं कामचारतः ॥ १९॥ ततस्त्वं पूजितस्तेन भूधरेण महात्मना । कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने ॥ २०॥ ततः प्रोवाच शैलेशः कन्याचरितमादितः । हरसेवान्वितं कामदहनं च हरेण ह ॥ २१॥ श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज । तमामन्त्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम् ॥ २२॥ तं समुत्सृज्य रहसि कालीं तामगमस्त्वरा । लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः ॥ २३॥ आसाद्य कालीं सम्बोध्य तद्धिते स्थित आदरात् । अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः ॥ २४॥ नारद उवाच । श‍ृणु कालि वचो मे हि सत्यं वच्मि दयारतः । सर्वथा ते हितकरं निर्विकारं सुकामदम् ॥ २५॥ सेवितश्च महादेवस्त्वयेह तपसा विना । गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः ॥ २६॥ विरक्तश्च स ते स्वामी महायोगी महेश्वरः । विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः ॥ २७॥ तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् । तपसा संस्कृतां रुद्रः स द्वितीयां करिष्यति ॥ २८॥ त्वं चापि शङ्करं शम्भुं न त्यक्ष्यसि कदाचन । नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते ॥ २९॥ ब्रह्मोवाच । इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा । किञ्चिदुच्छ्वसिता काली प्राह त्वां साञ्जलिर्मुदा ॥ ३०॥ शिवोवाच । त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो । रुद्रस्याराधनार्थाय मन्त्रं देहि मुने हि मे ॥ ३१॥ न सिध्यति क्रिया कापि सर्वेषां सद्गुरुं विना । मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी ॥ ३२॥ ब्रह्मोवाच । इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः । पञ्चाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः ॥ ३३॥ अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने । प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने ॥ ३४॥ नारद उवाच । श‍ृणु देवि मनोरस्य प्रभावं परमाद्भुतम् । यस्य श्रवणमात्रेण शङ्करः सुप्रसीदति ॥ ३५॥ मन्त्रोऽयं सर्वमन्त्राणामधिराजश्च कामदः । भुक्तिमुक्तिप्रदोऽत्यन्तं शङ्करस्य महाप्रियः ॥ ३६॥ सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् । आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम् ॥ ३७॥ चिन्तयन्ती च तद्रूपं नियमस्था शराक्षरम् । जप मन्त्रं शिवे त्वं हि सन्तुष्यति शिवो द्रुतम् ॥ ३८॥ एवं कुरु तपः साध्वि तपःसाध्यो महेश्वरः । तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ॥ ३९॥ ब्रह्मोवाच । एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः । यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः ॥ ४०॥ पार्वती च तदा श्रुत्वा वचनं तव नारद । सुप्रसन्ना तदा प्राप पञ्चाक्षरमनूत्तमम् ॥ ४१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ॥ २.३.२१॥

4 lines · meanings in 0 languagesRead →
Vrat KathaVishnu JiDraft

Devshayani Ekadashi Vrat Katha

चतुःपञ्चाशत्तमोऽध्यायः । आषाढशुक्लपक्षशयन्येकादशीमाहात्म्यवर्णनम् । युधिष्ठिर उवाच । आषाढस्य सितेपक्षे का चैवैकादशी भवेत् । किंनामको विधिस्तस्याः एतद्विस्तरतो वद ॥

9 lines · meanings in 0 languagesRead →
Vrat KathaJimutavahana JiDraft

Jivitputrika (Jitiya) Vrat Katha

अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् । स त्रिविक्रमसेनस्तमादायोदचलत्ततः आगच्छन्तं च तं भूपं स वेतालोऽब्रवीत्पुनः । राजञ्शृणु कथामेकामुदारां कथयामि ते अस्तीह हिमवान्नाम नगेन्द्रः सर्वरत्नभूः । यो गौरीगङ्गयोस्तुल्यः प्रभवो हरकान्तयोः शूरासंस्पृष्टपृष्ठश्च यो मध्ये कुलभूभृताम् । अभिमानोन्नतः सत्यं गीयते भुवनत्रये तस्यास्ति सानुन्यन्वर्थं तत्काञ्चनपुरं पुरम् । न्यासीकृतमिवार्केण रश्मिवृन्दं विभाति यत् जीमूतकेतुरित्यासीत्तस्मिन्पुरवरे पुरा । विद्याधरेश्वरः श्रीमान्मेराविव शतक्रतुः तस्यासीत्स्वगृहोद्याने कल्पवृक्षोऽन्वयागतः । यथार्थनामा प्रथितो यो मनोरथदायकः तं प्रार्थ्य देवतात्मानं स राजा तत्प्रसादतः । प्राप जातिस्मरं पुत्रं बोधिसत्त्वांशसंभवम् दानवीरं महासत्त्वं सर्वभूतानुकम्पिनम् । गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनम् संप्राप्तयौवनं तं च यौवराज्येऽभिषिक्तवान् । तनयं प्रेरितः सद्भिस्तद्गुणैः सचिवैश्च सः यौवराज्यस्थितश्चैष जातु जीमूतवाहनः । हितैषिभिरुपागत्य जगदे पितृमन्त्रिभिः देव कल्पतरुर्योऽयमस्ति वः सर्वकामदः । अधृष्यः सर्वभूतानां सैष पूज्यः सदा तव नास्मिन्सति हि शक्रोऽपि बाधेतास्मान्कुतोऽपरः । एतच्छ्रुत्वा स जीमूतवाहनोऽन्तरचिन्तयत् अहो बतेदृशमिमं संप्राप्यामरपादपम् । नासादितं किमप्यस्मात्पूर्वैर्नस्तादृशं फलम् केवलं कैश्चिदप्यर्थैरर्थितैः कृपणोचितैः । आत्मा चैष महात्मा च नीतौ द्वावपि लाघवम् तदहं साधयिष्यामि काममस्मान्मनोगतम् । इति निश्चित्य स ययौ महासत्त्वोऽन्तिकं पितुः तत्र संविहिताशेषशुश्रूषापरितोषितम् । सुखासीनं तमेकान्ते पितरं स व्यजिज्ञपत् तात त्वमेव जानासि यदेतस्मिन्भवाम्बुधौ । आशरीरमिदं सर्वं वीचिविभ्रमचञ्चलम् विशेषेणाचिरस्थायिप्रकाशप्रविलायिनी । संध्या विद्युच्च लक्ष्मीश्च दृष्टा कुत्र कदा स्थिरा एकः परोपकारस्तु संसारेऽस्मिन्ननश्वरः । यो धर्मयशसी सूते युगान्तशतसाक्षिणी

11 lines · meanings in 0 languagesRead →
Vrat KathaDurga JiDraft

Navratri / Durga Ashtami Vrat Katha

मार्कण्डेय उवाच सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद् गदतो मम ॥ महामायानुभावेन यथा मन्वन्तराधिपः । स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः । सुरथो नाम राजाभूत् समस्ते क्षितिमण्डले ॥ तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् । बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा ॥ तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः । न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ ततः स्वपुरमायातो निजदेशाधिपोऽभवत् । आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः । कोषो बलञ्चापहृतं तत्रापि स्वपुरे ततः ॥ ततो मृगयाव्याजेन हृतस्वाम्यः स भुपतिः । एकाकी हयमारुह्य जगाम गहनं वनम् ॥

7 lines · meanings in 0 languagesRead →
Vrat KathaVishnu JiDraft

Parivartini (Padma / Vamana) Ekadashi Vrat Katha

अष्टपञ्चाशत्तमोऽध्यायः । भाद्रशुक्लपद्मैकादशीमाहात्म्यवर्णनम् । युधिष्ठिर उवाच । नभस्यस्य सितेपक्षे किंनामैकादशी भवेत् । को देवः को विधिस्तस्य एतदाख्याहि केशव ॥ श्रीकृष्ण उवाच । कथयामि महीपाल कथामाश्चर्यकारिणीम् । कथयामास यां ब्रह्मा नारदाय महात्मने ॥

13 lines · meanings in 0 languagesRead →
Vrat KathaVishnu JiDraft

Mokshada Ekadashi Vrat Katha (Gita Jayanti)

युधिष्ठिर उवाच- वंदे विष्णुं विभुं साक्षाल्लोकत्रयसुखावहम् । विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमम् १। पृच्छामि देवदेवेश संशयोऽस्ति महान्मम । लोकानां च हितार्थाय पापानां क्षयहेतवे २। मार्गशीर्षेसिते पक्षे भवेदेकादशी तु या । किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते । एतदाचक्ष्व मे स्वामिन्विस्तरेण यथातथम् ३।

17 lines · meanings in 0 languagesRead →