Vrat KathaVishnu JiDraft
श्रीव्यास उवाच ।
एकदा नैमिषारण्ये ऋषयः शौनकादयः ।
पप्रच्छुर्मुनयः सर्वे सूतं पौराणिकं खलु ॥
ऋषय ऊचुः ।
व्रतेन तपसा किं वा प्राप्यते वाञ्छितं फलम् ।
तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥
सूत उवाच ।
नारदेनैव सम्पृष्टो भगवान् कमलापतिः ।
सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥
एकदा नारदो योगी परानुग्रहकाङ्क्षया ।
पर्यटन् विविधान् लोकान् मर्त्यलोकमुपागतः ॥
ततो दृष्ट्वा जनान्सर्वान् नानाक्लेशसमन्वितान् ।
नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभिः ॥
केनोपायेन चैतेषां दुःखनाशो भवेद् ध्रुवम् ।
इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् ।
शङ्ख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ॥
दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे ।
नारद उवाच ।
नमो वाङ्गमनसातीतरूपायानन्तशक्तये ।
आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने ॥
सर्वेषामादिभूताय भक्तानामार्तिनाशिने ।
श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ॥
श्रीभगवानुवाच ।
किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते ।
कथयस्व महाभाग तत्सर्वं कथायामि ते ॥
नारद उवाच ।
मर्त्यलोके जनाः सर्वे नानाक्लेशसमन्विताः ।
ननायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥
तत्कथं शमयेन्नाथ लघूपायेन तद्वद ।
श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥
श्रीभगवानुवाच ।
साधु पृष्टं त्वया वत्स लोकानुग्रहकाङ्क्षया ।
यत्कृत्वा मुच्यते मोहत् तच्छृणुष्व वदामि ते ॥
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ।
तव स्नेहान्मया वत्स प्रकाशः क्रियतेऽधुना ॥
सत्यनारायणस्यैव व्रतं सम्यग्विधानतः ।
कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् ।
तच्छ्रुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥
नारद उवाच ।
किं फलं किं विधानं च कृतं केनैव तद् व्रतम् ।
तत्सर्वं विस्तराद् ब्रूहि कदा कार्यं व्रतं प्रभो ॥
श्रीभगवानुवाच ।
दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ॥
सौभाग्यसन्ततिकरं सर्वत्र विजयप्रदम् ।
यस्मिन् कस्मिन् दिने मर्त्यो भक्तिश्रद्धासमन्वितः ॥
सत्यनारायणं देवं यजेच्चैव निशामुखे ।
ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥
नैवेद्यं भक्तितो दद्यात् सपादं भक्ष्यमुत्तमम् ।
रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ॥
अभावे शालिचूर्णं वा शर्करा वा गुडस्तथा ।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥
विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनैः सह ।
ततश्च बन्धुभिः सार्धं विप्रांश्च प्रतिभोजयेत् ॥
प्रसादं भक्षयेद् भक्त्या नृत्यगीतादिकं चरेत् ।
ततश्च स्वगृहं गच्छेत् सत्यनारायणं स्मरन् ॥
एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद् ध्रुवम् ।
विशेषतः कलियुगे लघूपायोऽस्ति भूतले ॥
॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां प्रथमोऽध्यायः ॥
5 lines · meanings in 0 languagesRead → Vrat KathaVishnu JiDraft
युधिष्ठिर उवाच
72 lines · meanings in 0 languagesRead → Vrat KathaVishnu JiDraft
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥
8 lines · meanings in 0 languagesRead → Vrat KathaShiv JiDraft
लोमश उवाच
आसीत् पुरा महारौद्रश्चण्डो नाम दुरात्मवान् ।
क्रूरसंगो निष्कृतिको भूतानां भयवाहकः
जालेन मत्स्यान् दुष्टात्मा घातयत्यनिशं खलु ।
भल्लैमृर्गाञ्छ्वापदांश्च कृष्णसारांश्च सल्लकान्
खड्गांश्चैव च दुष्टात्मा दृष्टवा कांश्चिच्च पापवान् ।
पक्षिणोऽघातयत् क्रुद्धो ब्राह्मणांश्च विशेषतः
लुब्धको हि महापापो दुष्टो दुष्जनप्रियः ।
भार्या तथाविधा तस्य पुष्कसस्य महाभया
एवं विहरतस्तस्य बहुकालोऽत्यवर्तत ।
गते बहुतिथे काले पापौघनिरतस्य च
10 lines · meanings in 2 languagesRead → Vrat KathaKrishna JiDraft
निशीथे तम उद्भूते जायमाने जनार्दने ।
देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः ।
आविरासीद् यथा प्राच्यां दिशि इन्दुरिव पुष्कलः ॥
तमद्भुतं बालकमम्बुजेक्षणं
चतुर्भुजं शंखगदार्युदायुधम् ।
श्रीवत्सलक्ष्मं गलशोभि कौस्तुभं
पीताम्बरं सान्द्रपयोदसौभगम् ॥
महार्हवैदूर्यकिरीटकुण्डल
त्विषा परिष्वक्त सहस्रकुन्तलम् ।
उद्दाम काञ्च्यङ्गद कङ्कणादिभिः
विरोचमानं वसुदेव ऐक्षत ॥
स विस्मयोत्फुल्ल विलोचनो हरिं
सुतं विलोक्यानकदुन्दुभिस्तदा ।
कृष्णावतारोत्सव संभ्रमोऽस्पृशन्
मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥
अथैनमस्तौदवधार्य पूरुषं
परं नताङ्गः कृतधीः कृताञ्जलिः ।
स्वरोचिषा भारत सूतिकागृहं
विरोचयन्तं गतभीः प्रभाववित् ॥
6 lines · meanings in 0 languagesRead → Vrat KathaParvati JiDraft
नारद उवाच ।
विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् ।
अद्भुतेयं कथा प्रोक्ता शङ्करस्य महात्मनः ॥ १॥
भस्मीभूते स्मरे शम्भुतृतीयनयनाग्निना ।
तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः ॥ २॥
किं चकार ततो देवी पार्वती कुधरात्मजा ।
गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे ॥ ३॥
ब्रह्मोवाच ।
शृणु तात महाप्राज्ञ चरितं शशिमौलिनः ।
महोतिकारकस्यैव स्वामिनो मम चादरात् ॥ ४॥
यदादहच्छम्भुनेत्रोद्भवो हि मदनं शुचिः ।
महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः ॥ ५॥
तेन शब्देन महता कामं दग्धं समीक्ष्य च ।
सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला ॥ ६॥
तेन शब्देन हिमवान्परिवारसमन्वितः ।
विस्मितोऽभूदतिक्लिष्टः सुतां स्मृत्वा गतां ततः ॥ ७॥
जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम् ।
रुदन्तीं शम्भुविरहादाससादाचलेश्वरः ॥ ८॥
आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् ।
मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत् ॥ ९॥
क्रोडे कृत्वा सुतां शीघ्रं हिमवानचलेश्वरः ।
स्वमालयमथानिन्ये सान्त्वयन्नतिविह्वलाम् ॥ १०॥
अन्तर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा ।
विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित् ॥ ११॥
पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा ।
पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ॥ १२॥
निनिन्द च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् ।
सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा ॥ १३॥
स्वपती च पिबन्ती च सा स्नाती गच्छती शिवा ।
तिष्ठन्ती च सखीमध्ये न किञ्चित्सुखमाप ह ॥ १४॥
धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च ।
इति ब्रुवन्ती सततं स्मरन्ती हरचेष्टितम् ॥ १५॥
एवं सा पार्वती शम्भुविरहोत्क्लिष्टमानसा ।
सुखं न लेभे किञ्चिद्वाब्रवीच्छिवशिवेति च ॥ १६॥
निवसन्ती पितुर्गेहे पिनाकिगतचेतना ।
शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः ॥ १७॥
शैलाधिराजोऽप्यथ मेनकापि
मैनाकमुख्यास्तनयाश्च सर्वे ।
तां सान्त्वयामासुरदीनसत्त्वा
हरं विसस्मार तथापि नो सा ॥ १८॥
अथ देवमुने धीमन्हिमवत्प्रस्तरे तदा ।
नियोजितो बलभिदागमस्त्वं कामचारतः ॥ १९॥
ततस्त्वं पूजितस्तेन भूधरेण महात्मना ।
कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने ॥ २०॥
ततः प्रोवाच शैलेशः कन्याचरितमादितः ।
हरसेवान्वितं कामदहनं च हरेण ह ॥ २१॥
श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज ।
तमामन्त्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम् ॥ २२॥
तं समुत्सृज्य रहसि कालीं तामगमस्त्वरा ।
लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः ॥ २३॥
आसाद्य कालीं सम्बोध्य तद्धिते स्थित आदरात् ।
अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः ॥ २४॥
नारद उवाच ।
शृणु कालि वचो मे हि सत्यं वच्मि दयारतः ।
सर्वथा ते हितकरं निर्विकारं सुकामदम् ॥ २५॥
सेवितश्च महादेवस्त्वयेह तपसा विना ।
गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः ॥ २६॥
विरक्तश्च स ते स्वामी महायोगी महेश्वरः ।
विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः ॥ २७॥
तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् ।
तपसा संस्कृतां रुद्रः स द्वितीयां करिष्यति ॥ २८॥
त्वं चापि शङ्करं शम्भुं न त्यक्ष्यसि कदाचन ।
नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते ॥ २९॥
ब्रह्मोवाच ।
इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा ।
किञ्चिदुच्छ्वसिता काली प्राह त्वां साञ्जलिर्मुदा ॥ ३०॥
शिवोवाच ।
त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो ।
रुद्रस्याराधनार्थाय मन्त्रं देहि मुने हि मे ॥ ३१॥
न सिध्यति क्रिया कापि सर्वेषां सद्गुरुं विना ।
मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी ॥ ३२॥
ब्रह्मोवाच ।
इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः ।
पञ्चाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः ॥ ३३॥
अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने ।
प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने ॥ ३४॥
नारद उवाच ।
शृणु देवि मनोरस्य प्रभावं परमाद्भुतम् ।
यस्य श्रवणमात्रेण शङ्करः सुप्रसीदति ॥ ३५॥
मन्त्रोऽयं सर्वमन्त्राणामधिराजश्च कामदः ।
भुक्तिमुक्तिप्रदोऽत्यन्तं शङ्करस्य महाप्रियः ॥ ३६॥
सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् ।
आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम् ॥ ३७॥
चिन्तयन्ती च तद्रूपं नियमस्था शराक्षरम् ।
जप मन्त्रं शिवे त्वं हि सन्तुष्यति शिवो द्रुतम् ॥ ३८॥
एवं कुरु तपः साध्वि तपःसाध्यो महेश्वरः ।
तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ॥ ३९॥
ब्रह्मोवाच ।
एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः ।
यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः ॥ ४०॥
पार्वती च तदा श्रुत्वा वचनं तव नारद ।
सुप्रसन्ना तदा प्राप पञ्चाक्षरमनूत्तमम् ॥ ४१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ॥ २.३.२१॥
4 lines · meanings in 0 languagesRead → Vrat KathaSavitri JiDraft
मार्कण्डेय उवाच।
399 lines · meanings in 0 languagesRead → Vrat KathaVishnu JiDraft
चतुःपञ्चाशत्तमोऽध्यायः ।
आषाढशुक्लपक्षशयन्येकादशीमाहात्म्यवर्णनम् ।
युधिष्ठिर उवाच ।
आषाढस्य सितेपक्षे का चैवैकादशी भवेत् । किंनामको विधिस्तस्याः एतद्विस्तरतो वद ॥
9 lines · meanings in 0 languagesRead → Vrat KathaJimutavahana JiDraft
अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् ।
स त्रिविक्रमसेनस्तमादायोदचलत्ततः
आगच्छन्तं च तं भूपं स वेतालोऽब्रवीत्पुनः ।
राजञ्शृणु कथामेकामुदारां कथयामि ते
अस्तीह हिमवान्नाम नगेन्द्रः सर्वरत्नभूः ।
यो गौरीगङ्गयोस्तुल्यः प्रभवो हरकान्तयोः
शूरासंस्पृष्टपृष्ठश्च यो मध्ये कुलभूभृताम् ।
अभिमानोन्नतः सत्यं गीयते भुवनत्रये
तस्यास्ति सानुन्यन्वर्थं तत्काञ्चनपुरं पुरम् ।
न्यासीकृतमिवार्केण रश्मिवृन्दं विभाति यत्
जीमूतकेतुरित्यासीत्तस्मिन्पुरवरे पुरा ।
विद्याधरेश्वरः श्रीमान्मेराविव शतक्रतुः
तस्यासीत्स्वगृहोद्याने कल्पवृक्षोऽन्वयागतः ।
यथार्थनामा प्रथितो यो मनोरथदायकः
तं प्रार्थ्य देवतात्मानं स राजा तत्प्रसादतः ।
प्राप जातिस्मरं पुत्रं बोधिसत्त्वांशसंभवम्
दानवीरं महासत्त्वं सर्वभूतानुकम्पिनम् ।
गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनम्
संप्राप्तयौवनं तं च यौवराज्येऽभिषिक्तवान् ।
तनयं प्रेरितः सद्भिस्तद्गुणैः सचिवैश्च सः
यौवराज्यस्थितश्चैष जातु जीमूतवाहनः ।
हितैषिभिरुपागत्य जगदे पितृमन्त्रिभिः
देव कल्पतरुर्योऽयमस्ति वः सर्वकामदः ।
अधृष्यः सर्वभूतानां सैष पूज्यः सदा तव
नास्मिन्सति हि शक्रोऽपि बाधेतास्मान्कुतोऽपरः ।
एतच्छ्रुत्वा स जीमूतवाहनोऽन्तरचिन्तयत्
अहो बतेदृशमिमं संप्राप्यामरपादपम् ।
नासादितं किमप्यस्मात्पूर्वैर्नस्तादृशं फलम्
केवलं कैश्चिदप्यर्थैरर्थितैः कृपणोचितैः ।
आत्मा चैष महात्मा च नीतौ द्वावपि लाघवम्
तदहं साधयिष्यामि काममस्मान्मनोगतम् ।
इति निश्चित्य स ययौ महासत्त्वोऽन्तिकं पितुः
तत्र संविहिताशेषशुश्रूषापरितोषितम् ।
सुखासीनं तमेकान्ते पितरं स व्यजिज्ञपत्
तात त्वमेव जानासि यदेतस्मिन्भवाम्बुधौ ।
आशरीरमिदं सर्वं वीचिविभ्रमचञ्चलम्
विशेषेणाचिरस्थायिप्रकाशप्रविलायिनी ।
संध्या विद्युच्च लक्ष्मीश्च दृष्टा कुत्र कदा स्थिरा
एकः परोपकारस्तु संसारेऽस्मिन्ननश्वरः ।
यो धर्मयशसी सूते युगान्तशतसाक्षिणी
11 lines · meanings in 0 languagesRead → Vrat KathaDurga JiDraft
मार्कण्डेय उवाच
सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।
निशामय तदुत्पत्तिं विस्तराद् गदतो मम ॥
महामायानुभावेन यथा मन्वन्तराधिपः ।
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।
सुरथो नाम राजाभूत् समस्ते क्षितिमण्डले ॥
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा ॥
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥
ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।
कोषो बलञ्चापहृतं तत्रापि स्वपुरे ततः ॥
ततो मृगयाव्याजेन हृतस्वाम्यः स भुपतिः ।
एकाकी हयमारुह्य जगाम गहनं वनम् ॥
7 lines · meanings in 0 languagesRead → Vrat KathaVishnu JiDraft
अष्टपञ्चाशत्तमोऽध्यायः ।
भाद्रशुक्लपद्मैकादशीमाहात्म्यवर्णनम् ।
युधिष्ठिर उवाच ।
नभस्यस्य सितेपक्षे किंनामैकादशी भवेत् । को देवः को विधिस्तस्य एतदाख्याहि केशव ॥
श्रीकृष्ण उवाच ।
कथयामि महीपाल कथामाश्चर्यकारिणीम् । कथयामास यां ब्रह्मा नारदाय महात्मने ॥
13 lines · meanings in 0 languagesRead → Vrat KathaVishnu JiDraft
युधिष्ठिर उवाच ।
35 lines · meanings in 0 languagesRead → Vrat KathaVishnu JiDraft
युधिष्ठिर उवाच-
वंदे विष्णुं विभुं साक्षाल्लोकत्रयसुखावहम् ।
विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमम् १।
पृच्छामि देवदेवेश संशयोऽस्ति महान्मम ।
लोकानां च हितार्थाय पापानां क्षयहेतवे २।
मार्गशीर्षेसिते पक्षे भवेदेकादशी तु या ।
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ।
एतदाचक्ष्व मे स्वामिन्विस्तरेण यथातथम् ३।
17 lines · meanings in 0 languagesRead →