Skip to main content
YatraBeyondYatraBeyond
Vrat KathaParvati JiNorth India / Nepal

Hartalika Teej Vrat Katha

Draft — pending review. This text has been sourced and translated per our editorial policy, but has not yet completed human review against sung versions. Wording may change.

Chapter 21 (Narada's teaching to Parvati, motivating her tapasya), verses 1-41 + colophon

नारद उवाच । विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् । अद्भुतेयं कथा प्रोक्ता शङ्करस्य महात्मनः ॥ १॥ भस्मीभूते स्मरे शम्भुतृतीयनयनाग्निना । तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः ॥ २॥ किं चकार ततो देवी पार्वती कुधरात्मजा । गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे ॥ ३॥ ब्रह्मोवाच । श‍ृणु तात महाप्राज्ञ चरितं शशिमौलिनः । महोतिकारकस्यैव स्वामिनो मम चादरात् ॥ ४॥ यदादहच्छम्भुनेत्रोद्भवो हि मदनं शुचिः । महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः ॥ ५॥ तेन शब्देन महता कामं दग्धं समीक्ष्य च । सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला ॥ ६॥ तेन शब्देन हिमवान्परिवारसमन्वितः । विस्मितोऽभूदतिक्लिष्टः सुतां स्मृत्वा गतां ततः ॥ ७॥ जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम् । रुदन्तीं शम्भुविरहादाससादाचलेश्वरः ॥ ८॥ आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् । मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत् ॥ ९॥ क्रोडे कृत्वा सुतां शीघ्रं हिमवानचलेश्वरः । स्वमालयमथानिन्ये सान्त्वयन्नतिविह्वलाम् ॥ १०॥ अन्तर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा । विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित् ॥ ११॥ पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा । पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ॥ १२॥ निनिन्द च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् । सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा ॥ १३॥ स्वपती च पिबन्ती च सा स्नाती गच्छती शिवा । तिष्ठन्ती च सखीमध्ये न किञ्चित्सुखमाप ह ॥ १४॥ धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च । इति ब्रुवन्ती सततं स्मरन्ती हरचेष्टितम् ॥ १५॥ एवं सा पार्वती शम्भुविरहोत्क्लिष्टमानसा । सुखं न लेभे किञ्चिद्वाब्रवीच्छिवशिवेति च ॥ १६॥ निवसन्ती पितुर्गेहे पिनाकिगतचेतना । शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः ॥ १७॥ शैलाधिराजोऽप्यथ मेनकापि मैनाकमुख्यास्तनयाश्च सर्वे । तां सान्त्वयामासुरदीनसत्त्वा हरं विसस्मार तथापि नो सा ॥ १८॥ अथ देवमुने धीमन्हिमवत्प्रस्तरे तदा । नियोजितो बलभिदागमस्त्वं कामचारतः ॥ १९॥ ततस्त्वं पूजितस्तेन भूधरेण महात्मना । कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने ॥ २०॥ ततः प्रोवाच शैलेशः कन्याचरितमादितः । हरसेवान्वितं कामदहनं च हरेण ह ॥ २१॥ श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज । तमामन्त्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम् ॥ २२॥ तं समुत्सृज्य रहसि कालीं तामगमस्त्वरा । लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः ॥ २३॥ आसाद्य कालीं सम्बोध्य तद्धिते स्थित आदरात् । अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः ॥ २४॥ नारद उवाच । श‍ृणु कालि वचो मे हि सत्यं वच्मि दयारतः । सर्वथा ते हितकरं निर्विकारं सुकामदम् ॥ २५॥ सेवितश्च महादेवस्त्वयेह तपसा विना । गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः ॥ २६॥ विरक्तश्च स ते स्वामी महायोगी महेश्वरः । विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः ॥ २७॥ तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् । तपसा संस्कृतां रुद्रः स द्वितीयां करिष्यति ॥ २८॥ त्वं चापि शङ्करं शम्भुं न त्यक्ष्यसि कदाचन । नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते ॥ २९॥ ब्रह्मोवाच । इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा । किञ्चिदुच्छ्वसिता काली प्राह त्वां साञ्जलिर्मुदा ॥ ३०॥ शिवोवाच । त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो । रुद्रस्याराधनार्थाय मन्त्रं देहि मुने हि मे ॥ ३१॥ न सिध्यति क्रिया कापि सर्वेषां सद्गुरुं विना । मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी ॥ ३२॥ ब्रह्मोवाच । इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः । पञ्चाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः ॥ ३३॥ अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने । प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने ॥ ३४॥ नारद उवाच । श‍ृणु देवि मनोरस्य प्रभावं परमाद्भुतम् । यस्य श्रवणमात्रेण शङ्करः सुप्रसीदति ॥ ३५॥ मन्त्रोऽयं सर्वमन्त्राणामधिराजश्च कामदः । भुक्तिमुक्तिप्रदोऽत्यन्तं शङ्करस्य महाप्रियः ॥ ३६॥ सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् । आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम् ॥ ३७॥ चिन्तयन्ती च तद्रूपं नियमस्था शराक्षरम् । जप मन्त्रं शिवे त्वं हि सन्तुष्यति शिवो द्रुतम् ॥ ३८॥ एवं कुरु तपः साध्वि तपःसाध्यो महेश्वरः । तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ॥ ३९॥ ब्रह्मोवाच । एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः । यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः ॥ ४०॥ पार्वती च तदा श्रुत्वा वचनं तव नारद । सुप्रसन्ना तदा प्राप पञ्चाक्षरमनूत्तमम् ॥ ४१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ॥ २.३.२१॥

nārada uvāca । vidhe tāta mahāprājña viṣṇuśiṣya trilokakṛt । adbhuteyaṃ kathā proktā śaṅkarasya mahātmanaḥ ॥ 1॥ bhasmībhūte smare śambhutṛtīyanayanāgninā । tasminpraviṣṭe jaladhau vada tvaṃ kimabhūttataḥ ॥ 2॥ kiṃ cakāra tato devī pārvatī kudharātmajā । gatā kutra sakhībhyāṃ sā tadvadādya dayānidhe ॥ 3॥ brahmovāca । śṛṇu tāta mahāprājña caritaṃ śaśimaulinaḥ । mahotikārakasyaiva svāmino mama cādarāt ॥ 4॥ yadādahacchambhunetrodbhavo hi madanaṃ śuciḥ । mahāśabdo'dbhuto'bhūdvai yenākāśaḥ prapūritaḥ ॥ 5॥ tena śabdena mahatā kāmaṃ dagdhaṃ samīkṣya ca । sakhībhyāṃ saha bhītā sā yayau svagṛhamākulā ॥ 6॥ tena śabdena himavānparivārasamanvitaḥ । vismito'bhūdatikliṣṭaḥ sutāṃ smṛtvā gatāṃ tataḥ ॥ 7॥ jagāma śokaṃ śaileśo sutāṃ dṛṣṭvātivihvalām । rudantīṃ śambhuvirahādāsasādācaleśvaraḥ ॥ 8॥ āsādya pāṇinā tasyā mārjayannayanadvayam । mā bibhīhi śive'rodīrityuktvā tāṃ tadāgrahīt ॥ 9॥ kroḍe kṛtvā sutāṃ śīghraṃ himavānacaleśvaraḥ । svamālayamathāninye sāntvayannativihvalām ॥ 10॥ antarhite smaraṃ dagdhvā hare tadvirahācchivā । vikalābhūd bhṛśaṃ sā vai lebhe śarma na kutracit ॥ 11॥ piturgṛhaṃ tadā gatvā militvā mātaraṃ śivā । punarjātaṃ tadā mene svātmānaṃ sā dharātmajā ॥ 12॥ nininda ca svarūpaṃ sā hā hatāsmītyathābravīt । sakhībhirbodhitā cāpi na bubodha girīndrajā ॥ 13॥ svapatī ca pibantī ca sā snātī gacchatī śivā । tiṣṭhantī ca sakhīmadhye na kiñcitsukhamāpa ha ॥ 14॥ dhiksvarūpaṃ madīyaṃ ca tathā janma ca karma ca । iti bruvantī satataṃ smarantī haraceṣṭitam ॥ 15॥ evaṃ sā pārvatī śambhuvirahotkliṣṭamānasā । sukhaṃ na lebhe kiñcidvābravīcchivaśiveti ca ॥ 16॥ nivasantī piturgehe pinākigatacetanā । śuśocātha śivā tāta mumoha ca muhurmuhuḥ ॥ 17॥ śailādhirājo'pyatha menakāpi mainākamukhyāstanayāśca sarve । tāṃ sāntvayāmāsuradīnasattvā haraṃ visasmāra tathāpi no sā ॥ 18॥ atha devamune dhīmanhimavatprastare tadā । niyojito balabhidāgamastvaṃ kāmacārataḥ ॥ 19॥ tatastvaṃ pūjitastena bhūdhareṇa mahātmanā । kuśalaṃ pṛṣṭavāṃstaṃ vai tadāviṣṭo varāsane ॥ 20॥ tataḥ provāca śaileśaḥ kanyācaritamāditaḥ । harasevānvitaṃ kāmadahanaṃ ca hareṇa ha ॥ 21॥ śrutvāvoco mune tvaṃ tu taṃ śaileśaṃ śivaṃ bhaja । tamāmantryodatiṣṭhastvaṃ saṃsmṛtya manasā śivam ॥ 22॥ taṃ samutsṛjya rahasi kālīṃ tāmagamastvarā । lokopakārako jñānī tvaṃ mune śivavallabhaḥ ॥ 23॥ āsādya kālīṃ sambodhya taddhite sthita ādarāt । avocastvaṃ vacastathyaṃ sarveṣāṃ jñānināṃ varaḥ ॥ 24॥ nārada uvāca । śṛṇu kāli vaco me hi satyaṃ vacmi dayārataḥ । sarvathā te hitakaraṃ nirvikāraṃ sukāmadam ॥ 25॥ sevitaśca mahādevastvayeha tapasā vinā । garvavatyā yadadhvaṃsīddīnānugrahakārakaḥ ॥ 26॥ viraktaśca sa te svāmī mahāyogī maheśvaraḥ । visṛṣṭavānsmaraṃ dagdhvā tvāṃ śive bhaktavatsalaḥ ॥ 27॥ tasmāttvaṃ sutapoyuktā ciramārādhayeśvaram । tapasā saṃskṛtāṃ rudraḥ sa dvitīyāṃ kariṣyati ॥ 28॥ tvaṃ cāpi śaṅkaraṃ śambhuṃ na tyakṣyasi kadācana । nānyaṃ patiṃ haṭhāddevi grahīṣyasi śivādṛte ॥ 29॥ brahmovāca । ityākarṇyavacaste hi mune sā bhūdharātmajā । kiñciducchvasitā kālī prāha tvāṃ sāñjalirmudā ॥ 30॥ śivovāca । tvaṃ tu sarvajña jagatāmupakārakara prabho । rudrasyārādhanārthāya mantraṃ dehi mune hi me ॥ 31॥ na sidhyati kriyā kāpi sarveṣāṃ sadguruṃ vinā । mayā śrutā purā satyaṃ śrutireṣā sanātanī ॥ 32॥ brahmovāca । iti śrutvā vacastasyāḥ pārvatyā munisattamaḥ । pañcākṣaraṃ śambhumantraṃ vidhipūrvamupādiśaḥ ॥ 33॥ avocaśca vacastāṃ tvaṃ śraddhāmutpādayanmune । prabhāvaṃ mantrarājasya tasya sarvādhikaṃ mune ॥ 34॥ nārada uvāca । śṛṇu devi manorasya prabhāvaṃ paramādbhutam । yasya śravaṇamātreṇa śaṅkaraḥ suprasīdati ॥ 35॥ mantro'yaṃ sarvamantrāṇāmadhirājaśca kāmadaḥ । bhuktimuktiprado'tyantaṃ śaṅkarasya mahāpriyaḥ ॥ 36॥ subhage yena japtena vidhinā so'cirād drutam । ārādhitaste pratyakṣo bhaviṣyati śivo dhruvam ॥ 37॥ cintayantī ca tadrūpaṃ niyamasthā śarākṣaram । japa mantraṃ śive tvaṃ hi santuṣyati śivo drutam ॥ 38॥ evaṃ kuru tapaḥ sādhvi tapaḥsādhyo maheśvaraḥ । tapasyeva phalaṃ sarvaiḥ prāpyate nānyathā kvacit ॥ 39॥ brahmovāca । evamuktvā tadā kālīṃ nārada tvaṃ śivapriyaḥ । yādṛcchiko'gamastvaṃ tu svargaṃ devahite rataḥ ॥ 40॥ pārvatī ca tadā śrutvā vacanaṃ tava nārada । suprasannā tadā prāpa pañcākṣaramanūttamam ॥ 41॥ iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe nāradopadeśo nāmaikaviṃśo'dhyāyaḥ ॥ 2.3.21॥

Chapter 22 (Parvati's forest tapasya: sakhis Jaya and Vijaya seek her parents' leave, Mena refuses, Parvati departs for the forest and performs austerities), verses 1-71 + colophon

ब्रह्मोवाच । त्वयि देवमुने याते पार्वती हृष्टमानसा । तपःसाध्यं हरं मेने तपोऽर्थं मन आदधे ॥ १॥ ततः सख्यौ समादाय जयां च विजयां तथा । मातरं पितरं चैव सखीभ्यां पर्यपृच्छत ॥ २॥ प्रथमं पितरं गत्वा हिमवन्तं नगेश्वरम् । पर्यपृच्छत्सुप्रणम्य विनयेन समन्विता ॥ ३॥ सख्यावूचतुः - हिमवन् श्रूयतां पुत्रीवचनं कथ्यतेऽधुना ॥ सा स्वयं चैव देहस्य रूपस्यापि तथा पुनः । ४॥ भवतो हि कुलस्यास्य साफल्यं कर्तुमिच्छति । तपसा साधनीयोऽसौ नान्यथा दृश्यतां व्रजेत् ॥ ५॥ तस्माच्च पर्वतश्रेष्ठ देयाज्ञा भवताधुना । तपः करोतु गिरिजा वनं गत्वेति सादरम् ॥ ६॥ ब्रह्मोवाच । इत्येवं च तदा पृष्टः सखीभ्यां मुनिसत्तम । पार्वत्या सुविचार्याथ गिरिराजोऽब्रवीदिदम् ॥ ७॥ हिमालय उवाच । मह्यं च रोचतेऽत्यर्थं मेनायै रुच्यतां पुनः । यथेदं भवितव्यं च किमतः परमुत्तमम् ॥ ८॥ साफल्यं तु मदीयस्य कुलस्य च न संशयः । मात्रे तु रुच्यते चेद्वै ततः शुभतरं नु किम् ॥ ९॥ ब्रह्मोवाच । इत्येवं वचनं पित्रा प्रोक्तं श्रुत्वा तु ते तदा । जग्मतुर्मातरं सख्यौ तदाज्ञप्ते तया सह ॥ १०॥ गत्वा तु मातरं तस्याः पार्वत्यास्ते च नारद । सुप्रणम्य करौ बध्वोचतुर्वचनमादरात् ॥ ११॥ सख्यावूचतुः मातस्त्वं वचनं पुत्र्याः श‍ृणु देवि नमोऽस्तु ते ॥ सुप्रसन्नतया तद्वै श्रुत्वा कर्तुमिहार्हसि । १२॥ तप्तुकामा तु ते पुत्री शिवार्थं परमं तपः । प्राप्तानुज्ञा पितुश्चैव तुभ्यं च परिपृच्छति ॥ १३॥ इयं स्वरूपसाफल्यं कर्तुकामा पतिव्रते । त्वदाज्ञा यदि जायेत तप्यते च तथा तपः ॥ १४॥ ब्रह्मोवाच । इत्युक्त्वा च ततःसख्यौ तूष्णीमास्तां मुनीश्वर । नाङ्गीचकार मेना सा तद्वाक्यं खिन्नमानसा ॥ १५॥ ततः सा पार्वती प्राह स्वयमेवाथ मातरम् । करौ बद्ध्वा विनीतात्मा स्मृत्वा शिवपदाम्बुजम् ॥ १६॥ पार्वत्युवाच । मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् । अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् ॥ १७॥ ब्रह्मोवाच । इत्याकर्ण्य वचः पुत्र्या मेना दुःखमुपागता । सोपाहूय तदा पुत्रीमुवाच विकला सती ॥ १८॥ मेनोवाच । दुःखितासि शिवे पुत्री तपस्तप्तुं पुरा यदि । तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति ॥ १९॥ कुत्र यासि तपः कर्तुं देवाः सन्ति गृहे मम । तीर्थानि च समस्तानि क्षेत्राणि विविधानि च ॥ २०॥ कर्तव्यो न हठः पुत्रि गन्तव्यं न बहिः क्वचित् । साधितं किं त्वया पूर्वं पुनः किं साधयिष्यसि ॥ २१॥ शरीरं कोमलं वत्से तपस्तु कठिनं महत् । एतस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्व्रज ॥ २२॥ स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी । तस्मात्त्वं पुत्रि मा कार्षीः तपोऽर्थं गमनं प्रति ॥ २३॥ ब्रह्मोवाच । इत्येवं बहुधा पुत्री तन्मात्रा विनिवारिता । संवदे न सुखं किञ्चिद्विनाराध्य महेश्वरम् ॥ २४॥ तपोनिषिद्धा तपसे वनं गन्तुं च मेनया । हेतुना तेन सोमेति नाम प्राप शिवा तदा ॥ २५॥ अथ तां दुःखितां ज्ञात्वा मेना शैलप्रिया शिवाम् । निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने ॥ २६॥ मातुराज्ञां च सम्प्राप्य सुव्रता मुनिसत्तम । ततः स्वान्ते सुखं लेभे पार्वती स्मृतशङ्करा ॥ २७॥ मातरं पितरं साथ प्रणिपत्य मुदा शिवा । सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता ॥ २८॥ हित्वा मतान्यनेकानि वस्त्राणि विविधानि च । वल्कलानि धृतान्याशु मौञ्जीं बद्ध्वा तु शोभनाम् ॥ २९॥ हित्वा हारं तथा चर्म मृगस्य परमं धृतम् । जगाम तपसे तत्र गङ्गावतरणं प्रति ॥ ३०॥ शम्भुना कुर्वता ध्यानं यत्र दग्धो मनोभवः । गङ्गावतरणो नाम प्रस्थो हिमवतःस च ॥ ३१॥ हरशून्योऽथ ददृशे स प्रस्थो हिमभूभृतः । काल्या तत्रेत्य भोस्तात पार्वत्या जगदम्बया ॥ ३२॥ यत्र स्थित्वा पुरा शम्भुः तप्तवान्दुस्तरं तपः । तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता ॥ ३३॥ हा हरेति शिवा तत्र रुदन्ती सा गिरेः सुता । विललापातिदुःखार्ता चिन्ताशोकसमन्विता ॥ ३४॥ ततश्चिरेण सा मोहं धैर्यात्संस्तभ्य पार्वती । नियमायाभवत्तत्र दीक्षिता हिमवत्सुता ॥ ३५॥ तपश्चकार सा तत्र श‍ृङ्गितीर्थे महोत्तमे । गौरीशिखर नामासीत्तत्तपःकरणाद्धि तत् ॥ ३६॥ सुन्दराश्च द्रुमास्तत्र पवित्राश्शिवया मुने । आरोपिताः परीक्षार्थं तपसः फलभागिनः ॥ ३७॥ भूभिशुद्धिं ततः कृत्वा वेदीं निर्माय सुन्दरी । तथा तपःसमारब्धं मुनीनामपि दुष्करम् ॥ ३८॥ विगृह्य मनसा सर्वाणीन्द्रियाणि सहाशु सा । समुपस्थानिके तत्र चकार परमं तपः ॥ ३९॥ ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम् । कृत्वा तस्थौ च तन्मध्ये सततं जपती मनुम् ॥ ४०॥ सततं चैव वर्षासु स्थण्डिले सुस्थिरासना । शिलापृष्ठे च संसिक्ता बभूव जलधारया ॥ ४१॥ शीते जलान्तरे शश्वत्तस्थौ सा भक्तितत्परा । अनाहारातपत्तत्र नीहारेषु निशासु च ॥ ४२॥ एवं तपः प्रकुर्वाणा पञ्चाक्षरजपे रता । दध्यौ शिवं शिवा तत्र सर्वकामफलप्रदम् ॥ ४३॥ स्वारोपितान् शुभान्वृक्षान्सखीभिस्सिञ्चती मुदा । प्रत्यहं सावकाशे सा तत्रातिथ्यमकल्पयत् ॥ ४४॥ वातश्चैव तथा शीतवृष्टिश्च विविधा तथा । दुस्सहोऽपि तथा घर्मस्तया सेहे सुचित्तया ॥ ४५॥ दुःखं च विविधं तत्र गणितं न तयागतम् । केवलं मन आधाय शिवे सासीत्स्थिता मुने ॥ ४६॥ प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः । तपः प्रकुर्वती देवी क्रमान्निन्येऽमिताः समाः ॥ ४७॥ ततः पर्णान्यपि शिवा निरस्य हिमवत्सुता । निराहाराभवद्देवी तपश्चरणसंरता ॥ ४८॥ आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुता । तेन देवैरपर्णेति कथिता नामतः शिवा ॥ ४९॥ एकपादस्थिता सासीच्छिवं संस्मृत्य पार्वती । पञ्चाक्षरं जपन्ती च मनुं तेपे तपो महत् ॥ ५०॥ चीरवल्कलसंवीता जटासङ्घातधारिणी । शिवचिन्तनसंसक्ता जिगाय तपसा मुनीन् ॥ ५१॥ एवं तस्यास्तपस्यन्त्या चिन्तयन्त्या महेश्वरम् । त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने ॥ ५२॥ षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः । तत्र क्षणमथोषित्वा चिन्तयामास सा शिवा ॥ ५३॥ नियमस्थां महादेव किं मां जानासि नाधुना । येनाहं सुचिरं तेन नानुयाता तपोरता ॥ ५४॥ लोके वेदे च गिरिशो मुनिभिर्गीयते सदा । शङ्करः स हि सर्वज्ञः सर्वात्मा सर्वदर्शनः ॥ ५५॥ सर्वभूतिप्रदो देवः सर्वभावानुभावनः । भक्ताभीष्टप्रदो नित्यं सर्वक्लेशनिवारणः ॥ ५६॥ सर्वकामान्परित्यज्य यदि चाहं वृषध्वजे । अनुरक्ता तदा सोऽत्र सम्प्रसीदतु शङ्करः ॥ ५७॥ यदि नारदतन्त्रोक्तमन्त्रो जप्तः शराक्षरः । सुभक्त्या विधिना नित्यं सम्प्रसीदतु शङ्करः ॥ ५८॥ यदि भक्त्या शिवस्याहं निर्विकारा यथोदितम् । सर्वेश्वरस्य चात्यन्तं सम्प्रसीदतु शङ्करः ॥ ५९॥ एवं चिन्तयती नित्यं तेपे सा सुचिरं तपः । अधोमुखी निर्विकारा जटावल्कलधारिणी ॥ ६०॥ तथा तया तपस्तप्तं मुनीनामपि दुष्करम् । स्मृत्वा च पुरुषास्तत्र परमं विस्मयं गताः ॥ ६१॥ तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः । धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मताः ॥ ६२॥ महतां धर्मवृद्धेषु गमनं श्रेय उच्यते । प्रमाणं तपसो नास्ति मान्यो धर्मःसदा बुधैः ॥ ६३॥ श्रुत्वा दृष्ट्वा तपोऽस्यास्तु किमन्यैः क्रियते तपः । अस्मात्तपोऽधिकं लोके न भूतं न भविष्यति ॥ ६४॥ जल्पन्त इति ते सर्वे सुप्रशस्य शिवातपः । जग्मुः स्वं धाम मुदिताः कठिनाङ्गाश्च ये ह्यपि ॥ ६५॥ अन्यच्छृणु महर्षे त्वं प्रभावं तपसोऽधुना । पार्वत्या जगदम्बायाः पराश्चर्यकरं महत् ॥ ६६॥ तदाश्रमगता ये च स्वभावेन विरोधिनः । तेऽप्यासँस्तत्प्रभावेण विरोधरहितास्तदा ॥ ६७॥ सिंहा गावश्च सततं रागादिदोषसंयुताः । तन्महिम्ना च ते तत्र नाबाधन्त परस्परम् ॥ ६८॥ अथान्ये च मुनिश्रेष्ठ मार्जारा मूषकादयः । निसर्गाद्वैरिणो यत्र विक्रियन्ते स्म न क्वचित् ॥ ६९॥ वृक्षाश्च सफलास्तत्र तृणानि विविधानि च । पुष्पाणि च विचित्राणि तत्रासन्मुनिसत्तम ॥ ७०॥ तद्वनं च तदा सर्वं कैलासेनोपमान्वितम् । जातं च तपसस्तस्याः सिद्धिरूपमभूत्तदा ॥ ७१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीतपोवर्णनं नाम द्वाविंशोऽध्यायः ॥ २.३.२२॥

brahmovāca । tvayi devamune yāte pārvatī hṛṣṭamānasā । tapaḥsādhyaṃ haraṃ mene tapo'rthaṃ mana ādadhe ॥ 1॥ tataḥ sakhyau samādāya jayāṃ ca vijayāṃ tathā । mātaraṃ pitaraṃ caiva sakhībhyāṃ paryapṛcchata ॥ 2॥ prathamaṃ pitaraṃ gatvā himavantaṃ nageśvaram । paryapṛcchatsupraṇamya vinayena samanvitā ॥ 3॥ sakhyāvūcatuḥ - himavan śrūyatāṃ putrīvacanaṃ kathyate'dhunā ॥ sā svayaṃ caiva dehasya rūpasyāpi tathā punaḥ । 4॥ bhavato hi kulasyāsya sāphalyaṃ kartumicchati । tapasā sādhanīyo'sau nānyathā dṛśyatāṃ vrajet ॥ 5॥ tasmācca parvataśreṣṭha deyājñā bhavatādhunā । tapaḥ karotu girijā vanaṃ gatveti sādaram ॥ 6॥ brahmovāca । ityevaṃ ca tadā pṛṣṭaḥ sakhībhyāṃ munisattama । pārvatyā suvicāryātha girirājo'bravīdidam ॥ 7॥ himālaya uvāca । mahyaṃ ca rocate'tyarthaṃ menāyai rucyatāṃ punaḥ । yathedaṃ bhavitavyaṃ ca kimataḥ paramuttamam ॥ 8॥ sāphalyaṃ tu madīyasya kulasya ca na saṃśayaḥ । mātre tu rucyate cedvai tataḥ śubhataraṃ nu kim ॥ 9॥ brahmovāca । ityevaṃ vacanaṃ pitrā proktaṃ śrutvā tu te tadā । jagmaturmātaraṃ sakhyau tadājñapte tayā saha ॥ 10॥ gatvā tu mātaraṃ tasyāḥ pārvatyāste ca nārada । supraṇamya karau badhvocaturvacanamādarāt ॥ 11॥ sakhyāvūcatuḥ mātastvaṃ vacanaṃ putryāḥ śṛṇu devi namo'stu te ॥ suprasannatayā tadvai śrutvā kartumihārhasi । 12॥ taptukāmā tu te putrī śivārthaṃ paramaṃ tapaḥ । prāptānujñā pituścaiva tubhyaṃ ca paripṛcchati ॥ 13॥ iyaṃ svarūpasāphalyaṃ kartukāmā pativrate । tvadājñā yadi jāyeta tapyate ca tathā tapaḥ ॥ 14॥ brahmovāca । ityuktvā ca tataḥsakhyau tūṣṇīmāstāṃ munīśvara । nāṅgīcakāra menā sā tadvākyaṃ khinnamānasā ॥ 15॥ tataḥ sā pārvatī prāha svayamevātha mātaram । karau baddhvā vinītātmā smṛtvā śivapadāmbujam ॥ 16॥ pārvatyuvāca । mātastaptuṃ gamiṣyāmi prātaḥ prāptuṃ maheśvaram । anujānīhi māṃ gantuṃ tapase'dya tapovanam ॥ 17॥ brahmovāca । ityākarṇya vacaḥ putryā menā duḥkhamupāgatā । sopāhūya tadā putrīmuvāca vikalā satī ॥ 18॥ menovāca । duḥkhitāsi śive putrī tapastaptuṃ purā yadi । tapaścara gṛhe'dya tvaṃ na bahirgaccha pārvati ॥ 19॥ kutra yāsi tapaḥ kartuṃ devāḥ santi gṛhe mama । tīrthāni ca samastāni kṣetrāṇi vividhāni ca ॥ 20॥ kartavyo na haṭhaḥ putri gantavyaṃ na bahiḥ kvacit । sādhitaṃ kiṃ tvayā pūrvaṃ punaḥ kiṃ sādhayiṣyasi ॥ 21॥ śarīraṃ komalaṃ vatse tapastu kaṭhinaṃ mahat । etasmāttu tvayā kāryaṃ tapo'tra na bahirvraja ॥ 22॥ strīṇāṃ tapovanagatirna śrutā kāmanārthinī । tasmāttvaṃ putri mā kārṣīḥ tapo'rthaṃ gamanaṃ prati ॥ 23॥ brahmovāca । ityevaṃ bahudhā putrī tanmātrā vinivāritā । saṃvade na sukhaṃ kiñcidvinārādhya maheśvaram ॥ 24॥ taponiṣiddhā tapase vanaṃ gantuṃ ca menayā । hetunā tena someti nāma prāpa śivā tadā ॥ 25॥ atha tāṃ duḥkhitāṃ jñātvā menā śailapriyā śivām । nideśaṃ sā dadau tasyāḥ pārvatyāstapase mune ॥ 26॥ māturājñāṃ ca samprāpya suvratā munisattama । tataḥ svānte sukhaṃ lebhe pārvatī smṛtaśaṅkarā ॥ 27॥ mātaraṃ pitaraṃ sātha praṇipatya mudā śivā । sakhībhyāṃ ca śivaṃ smṛtvā tapastaptuṃ samudgatā ॥ 28॥ hitvā matānyanekāni vastrāṇi vividhāni ca । valkalāni dhṛtānyāśu mauñjīṃ baddhvā tu śobhanām ॥ 29॥ hitvā hāraṃ tathā carma mṛgasya paramaṃ dhṛtam । jagāma tapase tatra gaṅgāvataraṇaṃ prati ॥ 30॥ śambhunā kurvatā dhyānaṃ yatra dagdho manobhavaḥ । gaṅgāvataraṇo nāma prastho himavataḥsa ca ॥ 31॥ haraśūnyo'tha dadṛśe sa prastho himabhūbhṛtaḥ । kālyā tatretya bhostāta pārvatyā jagadambayā ॥ 32॥ yatra sthitvā purā śambhuḥ taptavāndustaraṃ tapaḥ । tatra kṣaṇaṃ tu sā sthitvā babhūva virahārditā ॥ 33॥ hā hareti śivā tatra rudantī sā gireḥ sutā । vilalāpātiduḥkhārtā cintāśokasamanvitā ॥ 34॥ tataścireṇa sā mohaṃ dhairyātsaṃstabhya pārvatī । niyamāyābhavattatra dīkṣitā himavatsutā ॥ 35॥ tapaścakāra sā tatra śṛṅgitīrthe mahottame । gaurīśikhara nāmāsīttattapaḥkaraṇāddhi tat ॥ 36॥ sundarāśca drumāstatra pavitrāśśivayā mune । āropitāḥ parīkṣārthaṃ tapasaḥ phalabhāginaḥ ॥ 37॥ bhūbhiśuddhiṃ tataḥ kṛtvā vedīṃ nirmāya sundarī । tathā tapaḥsamārabdhaṃ munīnāmapi duṣkaram ॥ 38॥ vigṛhya manasā sarvāṇīndriyāṇi sahāśu sā । samupasthānike tatra cakāra paramaṃ tapaḥ ॥ 39॥ grīṣme ca parito vahniṃ prajvalantaṃ divāniśam । kṛtvā tasthau ca tanmadhye satataṃ japatī manum ॥ 40॥ satataṃ caiva varṣāsu sthaṇḍile susthirāsanā । śilāpṛṣṭhe ca saṃsiktā babhūva jaladhārayā ॥ 41॥ śīte jalāntare śaśvattasthau sā bhaktitatparā । anāhārātapattatra nīhāreṣu niśāsu ca ॥ 42॥ evaṃ tapaḥ prakurvāṇā pañcākṣarajape ratā । dadhyau śivaṃ śivā tatra sarvakāmaphalapradam ॥ 43॥ svāropitān śubhānvṛkṣānsakhībhissiñcatī mudā । pratyahaṃ sāvakāśe sā tatrātithyamakalpayat ॥ 44॥ vātaścaiva tathā śītavṛṣṭiśca vividhā tathā । dussaho'pi tathā gharmastayā sehe sucittayā ॥ 45॥ duḥkhaṃ ca vividhaṃ tatra gaṇitaṃ na tayāgatam । kevalaṃ mana ādhāya śive sāsītsthitā mune ॥ 46॥ prathamaṃ phalabhogena dvitīyaṃ parṇabhojanaiḥ । tapaḥ prakurvatī devī kramānninye'mitāḥ samāḥ ॥ 47॥ tataḥ parṇānyapi śivā nirasya himavatsutā । nirāhārābhavaddevī tapaścaraṇasaṃratā ॥ 48॥ āhāre tyaktaparṇābhūdyasmāddhimavataḥ sutā । tena devairaparṇeti kathitā nāmataḥ śivā ॥ 49॥ ekapādasthitā sāsīcchivaṃ saṃsmṛtya pārvatī । pañcākṣaraṃ japantī ca manuṃ tepe tapo mahat ॥ 50॥ cīravalkalasaṃvītā jaṭāsaṅghātadhāriṇī । śivacintanasaṃsaktā jigāya tapasā munīn ॥ 51॥ evaṃ tasyāstapasyantyā cintayantyā maheśvaram । trīṇi varṣasahasrāṇi jagmuḥ kālyāstapovane ॥ 52॥ ṣaṣṭivarṣasahasrāṇi yatra tepe tapo haraḥ । tatra kṣaṇamathoṣitvā cintayāmāsa sā śivā ॥ 53॥ niyamasthāṃ mahādeva kiṃ māṃ jānāsi nādhunā । yenāhaṃ suciraṃ tena nānuyātā taporatā ॥ 54॥ loke vede ca giriśo munibhirgīyate sadā । śaṅkaraḥ sa hi sarvajñaḥ sarvātmā sarvadarśanaḥ ॥ 55॥ sarvabhūtiprado devaḥ sarvabhāvānubhāvanaḥ । bhaktābhīṣṭaprado nityaṃ sarvakleśanivāraṇaḥ ॥ 56॥ sarvakāmānparityajya yadi cāhaṃ vṛṣadhvaje । anuraktā tadā so'tra samprasīdatu śaṅkaraḥ ॥ 57॥ yadi nāradatantroktamantro japtaḥ śarākṣaraḥ । subhaktyā vidhinā nityaṃ samprasīdatu śaṅkaraḥ ॥ 58॥ yadi bhaktyā śivasyāhaṃ nirvikārā yathoditam । sarveśvarasya cātyantaṃ samprasīdatu śaṅkaraḥ ॥ 59॥ evaṃ cintayatī nityaṃ tepe sā suciraṃ tapaḥ । adhomukhī nirvikārā jaṭāvalkaladhāriṇī ॥ 60॥ tathā tayā tapastaptaṃ munīnāmapi duṣkaram । smṛtvā ca puruṣāstatra paramaṃ vismayaṃ gatāḥ ॥ 61॥ tattapodarśanārthaṃ hi samājagmuśca te'khilāḥ । dhanyānnijānmanyamānā jagaduśceti sammatāḥ ॥ 62॥ mahatāṃ dharmavṛddheṣu gamanaṃ śreya ucyate । pramāṇaṃ tapaso nāsti mānyo dharmaḥsadā budhaiḥ ॥ 63॥ śrutvā dṛṣṭvā tapo'syāstu kimanyaiḥ kriyate tapaḥ । asmāttapo'dhikaṃ loke na bhūtaṃ na bhaviṣyati ॥ 64॥ jalpanta iti te sarve supraśasya śivātapaḥ । jagmuḥ svaṃ dhāma muditāḥ kaṭhināṅgāśca ye hyapi ॥ 65॥ anyacchṛṇu maharṣe tvaṃ prabhāvaṃ tapaso'dhunā । pārvatyā jagadambāyāḥ parāścaryakaraṃ mahat ॥ 66॥ tadāśramagatā ye ca svabhāvena virodhinaḥ । te'pyāsaṃstatprabhāveṇa virodharahitāstadā ॥ 67॥ siṃhā gāvaśca satataṃ rāgādidoṣasaṃyutāḥ । tanmahimnā ca te tatra nābādhanta parasparam ॥ 68॥ athānye ca muniśreṣṭha mārjārā mūṣakādayaḥ । nisargādvairiṇo yatra vikriyante sma na kvacit ॥ 69॥ vṛkṣāśca saphalāstatra tṛṇāni vividhāni ca । puṣpāṇi ca vicitrāṇi tatrāsanmunisattama ॥ 70॥ tadvanaṃ ca tadā sarvaṃ kailāsenopamānvitam । jātaṃ ca tapasastasyāḥ siddhirūpamabhūttadā ॥ 71॥ iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatītapovarṇanaṃ nāma dvāviṃśo'dhyāyaḥ ॥ 2.3.22॥

Chapter 23 (Himalaya tries to dissuade Parvati; her resolve; the gods, tormented by Tarakasura, appeal to Brahma, Vishnu and finally Shiva), verses 1-51 + colophon

ब्रह्मोवाच । एवं तपत्यां पार्वत्यां शिवप्राप्तौ मुनीश्वर । चिरकालो व्यतीयाय प्रादुर्भूतो हरो न हि ॥ १॥ हिमालयस्तदागत्य पार्वतीं कृतनिश्चयाम् । सभार्यः ससुतामात्य उवाच परमेश्वरीम् ॥ २॥ हिमालय उवाच । मा खिद्यतां महाभागे तपसानेन पार्वती । रुद्रो न दृश्यते बाले विरक्तो नात्र संशयः ॥ ३॥ त्वं तन्वी सुकुमाराङ्गी तपसा च विमोहिता । भविष्यसि न सन्देहः सत्यं सत्यं वदामि ते ॥ ४॥ तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं वरवर्णिनि । किं तेन तव रुद्रेण येन दग्धः पुरा स्मरः ॥ ५॥ अतो हि निर्विकारत्वात्त्वामादातुं वरां हरः । नागमिष्यति देवेशि तं कथं प्रार्थयिष्यसि ॥ ६॥ गगनस्थो यथा चन्द्रो ग्रहीतुं न हि शक्यते । तथैव दुर्गमं शम्भुं जानीहि त्वमिहानघे ॥ ७॥ ब्रह्मोवाच । तथैव मेनया चोक्ता तथा सह्याद्रिणा सती । मेरुणा मन्दरेणैव मैनाकेन तथैव सा ॥ ८॥ एवमन्यैः क्षितिध्रैश्च क्रौञ्चादिभिरनातुरा । तथैव गिरिजा प्रोक्ता नानावादविधायिभिः ॥ ९॥ एवं प्रोक्ता यदा तन्वी सा सर्वैः तपसि स्थिता । उवाच प्रहसन्त्येव हिमवन्तं शुचिस्मिता ॥ १०॥ पार्वत्युवाच । पुरा प्रोक्तं मया तात मातः किं विस्मृतं त्वया । अधुनापि प्रतिज्ञां च श‍ृणुध्वं मम बान्धवाः ॥ ११॥ विरक्तोऽसौ महादेवो येन दग्धो रुषा स्मरः । तं तोषयामि तपसा शङ्करं भक्तवत्सलम् ॥ १२॥ सर्वे भवन्तो गच्छन्तु स्वं स्वं धाम प्रहर्षिताः । भविष्यत्येव तुष्टोऽसौ नात्र कार्या विचारणा ॥ १३॥ दग्धो हि मदनो येन येन दग्धं गिरेर्वनम् । तमानयिष्ये चात्रैव तपसा केवलेन हि ॥ १४॥ तपोबलेन महता सुसेव्यो हि सदाशिवः । जानीध्वं हि महाभागाः सत्यं सत्यं वदामि वः ॥ १५॥ आभाष्य चैवं गिरिजा च मेनकां मैनाकबन्धुं पितरं हिमालयम् । तूष्णीं बभूवाशु सुभाषिणी शिवा समन्दरं पर्वतराजबालिका ॥ १६॥ जग्मुस्तथोक्ताः शिवया हि पर्वता यथागतेनापि विचक्षणास्ते । प्रशंसमाना गिरिजां मुहुर्मुहुः सुविस्मिता हेमनगेश्वराद्याः ॥ १७॥ गतेषु तेषु सूर्वेषु सखीभिः परिवारिता । तपस्तेपे तदधिकं परमार्थसुनिश्चया ॥ १८॥ तपसा महता तेन तप्तमासीच्चराचरम् । त्रैलोक्यं हि मुनिश्रेष्ठ सदेवासुरमानुषम् ॥ १९॥ तदा सुरासुराः सर्वे यक्षकिन्नरचारणाः । सिद्धाःसाध्याश्च मुनयो विद्याधरमहोरगाः ॥ २०॥ सप्रजापतयश्चैव गुह्यकाश्च तथापरे । कष्टात् कष्टतरं प्राप्ताः कारणं न विदुः स्म तत् ॥ २१॥ सर्वे मिलित्वा शक्राद्या गुरुमामन्त्र्य विह्वलाः । सुमेरौ तप्तसर्वाङ्गा विधिं मां शरणं ययुः ॥ २२॥ तत्र गत्वा प्रणम्याशु विह्वला नष्टसुत्विषः । ऊचुःसर्वे च संस्तूय ह्यैकपद्येन मां हि ते ॥ २३॥ देवा ऊचुः । त्वया सृष्टमिदं सर्वं जगदेतच्चराचरम् । सन्तप्तमति कस्माद्वै न ज्ञातं कारणं विभो ॥ २४॥ तद् ब्रूहि कारणं ब्रह्मन् ज्ञातुमर्हसि नः प्रभो । दग्धीभूततनून्देवान् त्वत्तो नान्योऽस्ति रक्षकः ॥ २५॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषामहं स्मृत्वा शिवं हृदा । विचार्य मनसा सर्वं गिरिजायास्तपः फलम् ॥ २६॥ दग्धं विश्वमिति ज्ञात्वा तैः सर्वैरिह सादरात् । हरये तत्कथयितुं क्षीराब्धिमगमं द्रुतम् ॥ २७॥ तत्र गत्वा हरिं दृष्ट्वा विलसन्तं सुखासने । सुप्रणम्य सुसंस्तूय प्रावोचं साञ्जलिः सुरैः ॥ २८॥ त्राहि त्राहि महाविष्णो तप्तान्नः शरणागतान् । तपसोग्रेण पार्वत्यास्तपन्त्याः परमेण हि ॥ २९॥ इत्याकर्ण्य वचस्तेषामस्मदादिदिवौकसाम् । शेषासने समाविष्टोऽस्मानुवाच रमेश्वरः ॥ ३०॥ विष्णुरुवाच । ज्ञातं सर्वं निदानं मे पार्वतीतपसोऽद्य वै । युष्माभिः सहितस्त्वद्य व्रजामि परमेश्वरम् ॥ ३१॥ महादेवं प्रार्थयामो गिरिजाप्रापणाय तम् । पाणिग्रहार्थमधुना लोकानां स्वस्तयेऽमराः ॥ ३२॥ वरं दातुं शिवायै हि देवदेवः पिनाकधृक् । यथा चेष्यति तत्रैव करिष्यामोऽधुना हि तत् ॥ ३३॥ तस्माद् वयं गमिष्यामो यत्र रुद्रो महाप्रभुः । तपसोग्रेण संयुक्तोऽद्यास्ते परममङ्गलः ॥ ३४॥ ब्रह्मोवाच । विष्णोस्तद्वचनं श्रुत्वा सर्व ऊचुः सुरादयः । महाभीता हठात् कुद्धाद्दग्धुकामात् लयङ्करात् ॥ ३५॥ देवा ऊचुः । महाभयङ्करं क्रुद्धं कालानलसमप्रभम् । न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभुम् ॥ ३६॥ यथा दग्धः पुरा तेन मदनो दुरतिक्रमः । तथैव क्रोधयुक्तो नः स धक्ष्यति न संशयः ॥ ३७॥ ब्रह्मोवाच तदाकर्ण्य वचस्तेषां शक्रादीनां रमेश्वरः । सान्त्वयंस्तान्सुरान्सर्वान्प्रोवाच स हरिर्मुने ॥ ३८॥ हरिरुवाच । हे सुरा मद्वचः प्रीत्या श‍ृणुतादरतोऽखिलाः । न वो धक्ष्यति स स्वामी देवानां भयनाशनः ॥ ३९॥ तस्माद्भवद्भिर्गन्तव्यं मया सार्धं विचक्षणैः । शम्भुं शुभकरं मत्वा शरणं तस्य सुप्रभोः ॥ ४०॥ शिवं पुराणं पुरुषं ह्यधीशं वरेण्यरूपं हि परं पुराणम् । तपो जुषाणं परमात्मरूपं परात्परं तं शरणं व्रजामः ॥ ४१॥ ब्रह्मोवाच । एवमुक्तास्तदा देवा विष्णुना प्रभविष्णुना । जग्मुः सर्वे तेन सह द्रष्टुकामाः पिनाकिनम् ॥ ४२॥ प्रथमं शैलपुत्र्यास्तत्तपो द्रष्टुं तदाश्रमम् । जग्मुर्मार्गवशात्सर्वे विष्ण्वाद्याः सकुतूहलाः ॥ ४३॥ पार्वत्याः सुतपो दृष्ट्वा तेजसा व्यापृतास्तदा । प्रणेमुस्तां जगद्धात्रीं तेजोरूपां तपःस्थिताम् ॥ ४४॥ प्रशंसन्तस्तपस्तस्याः साक्षात्सिद्धितनोः सुराः । जग्मुस्तत्र तदा ते च यत्रास्ते वृषभध्वजः ॥ ४५॥ तत्र गत्वा च ते देवास्त्वां मुने प्रैषयंस्तदा । पश्यन्तो दूरतस्तस्थुः कामभस्मकृतो हरात् ॥ ४६॥ नारद त्वं शिवस्थानं तदा गत्वाभयः सदा । शिवभक्तो विशेषेण प्रसन्नं दृष्टवान् प्रभुम् ॥ ४७॥ पुनरागत्य यत्नेन देवानाहूय तांस्ततः । निनाय शङ्करस्थानं तदा विष्ण्वादिकान्मुने ॥ ४८॥ अथ विष्ण्वादयः सर्वे तत्र गत्वा शिवं प्रभुम् । ददृशुः सुखमासीनं प्रसन्नं भक्तवत्सलम् ॥ ४९॥ योगपट्टस्थितं शम्भुं गणैश्च परिवारितम् । तपोरूपं दधानं च परमेश्वररूपिणम् ॥ ५०॥ ततो विष्णुर्मयान्ये च सुरसिद्धमुनीश्वराः । प्रणम्य तुष्टुवुः सूक्तैर्वेदोपनिषदन्वितैः ॥ ५१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २.३.२३॥

brahmovāca । evaṃ tapatyāṃ pārvatyāṃ śivaprāptau munīśvara । cirakālo vyatīyāya prādurbhūto haro na hi ॥ 1॥ himālayastadāgatya pārvatīṃ kṛtaniścayām । sabhāryaḥ sasutāmātya uvāca parameśvarīm ॥ 2॥ himālaya uvāca । mā khidyatāṃ mahābhāge tapasānena pārvatī । rudro na dṛśyate bāle virakto nātra saṃśayaḥ ॥ 3॥ tvaṃ tanvī sukumārāṅgī tapasā ca vimohitā । bhaviṣyasi na sandehaḥ satyaṃ satyaṃ vadāmi te ॥ 4॥ tasmāduttiṣṭha caihi tvaṃ svagṛhaṃ varavarṇini । kiṃ tena tava rudreṇa yena dagdhaḥ purā smaraḥ ॥ 5॥ ato hi nirvikāratvāttvāmādātuṃ varāṃ haraḥ । nāgamiṣyati deveśi taṃ kathaṃ prārthayiṣyasi ॥ 6॥ gaganastho yathā candro grahītuṃ na hi śakyate । tathaiva durgamaṃ śambhuṃ jānīhi tvamihānaghe ॥ 7॥ brahmovāca । tathaiva menayā coktā tathā sahyādriṇā satī । meruṇā mandareṇaiva mainākena tathaiva sā ॥ 8॥ evamanyaiḥ kṣitidhraiśca krauñcādibhiranāturā । tathaiva girijā proktā nānāvādavidhāyibhiḥ ॥ 9॥ evaṃ proktā yadā tanvī sā sarvaiḥ tapasi sthitā । uvāca prahasantyeva himavantaṃ śucismitā ॥ 10॥ pārvatyuvāca । purā proktaṃ mayā tāta mātaḥ kiṃ vismṛtaṃ tvayā । adhunāpi pratijñāṃ ca śṛṇudhvaṃ mama bāndhavāḥ ॥ 11॥ virakto'sau mahādevo yena dagdho ruṣā smaraḥ । taṃ toṣayāmi tapasā śaṅkaraṃ bhaktavatsalam ॥ 12॥ sarve bhavanto gacchantu svaṃ svaṃ dhāma praharṣitāḥ । bhaviṣyatyeva tuṣṭo'sau nātra kāryā vicāraṇā ॥ 13॥ dagdho hi madano yena yena dagdhaṃ girervanam । tamānayiṣye cātraiva tapasā kevalena hi ॥ 14॥ tapobalena mahatā susevyo hi sadāśivaḥ । jānīdhvaṃ hi mahābhāgāḥ satyaṃ satyaṃ vadāmi vaḥ ॥ 15॥ ābhāṣya caivaṃ girijā ca menakāṃ mainākabandhuṃ pitaraṃ himālayam । tūṣṇīṃ babhūvāśu subhāṣiṇī śivā samandaraṃ parvatarājabālikā ॥ 16॥ jagmustathoktāḥ śivayā hi parvatā yathāgatenāpi vicakṣaṇāste । praśaṃsamānā girijāṃ muhurmuhuḥ suvismitā hemanageśvarādyāḥ ॥ 17॥ gateṣu teṣu sūrveṣu sakhībhiḥ parivāritā । tapastepe tadadhikaṃ paramārthasuniścayā ॥ 18॥ tapasā mahatā tena taptamāsīccarācaram । trailokyaṃ hi muniśreṣṭha sadevāsuramānuṣam ॥ 19॥ tadā surāsurāḥ sarve yakṣakinnaracāraṇāḥ । siddhāḥsādhyāśca munayo vidyādharamahoragāḥ ॥ 20॥ saprajāpatayaścaiva guhyakāśca tathāpare । kaṣṭāt kaṣṭataraṃ prāptāḥ kāraṇaṃ na viduḥ sma tat ॥ 21॥ sarve militvā śakrādyā gurumāmantrya vihvalāḥ । sumerau taptasarvāṅgā vidhiṃ māṃ śaraṇaṃ yayuḥ ॥ 22॥ tatra gatvā praṇamyāśu vihvalā naṣṭasutviṣaḥ । ūcuḥsarve ca saṃstūya hyaikapadyena māṃ hi te ॥ 23॥ devā ūcuḥ । tvayā sṛṣṭamidaṃ sarvaṃ jagadetaccarācaram । santaptamati kasmādvai na jñātaṃ kāraṇaṃ vibho ॥ 24॥ tad brūhi kāraṇaṃ brahman jñātumarhasi naḥ prabho । dagdhībhūtatanūndevān tvatto nānyo'sti rakṣakaḥ ॥ 25॥ brahmovāca । ityākarṇya vacasteṣāmahaṃ smṛtvā śivaṃ hṛdā । vicārya manasā sarvaṃ girijāyāstapaḥ phalam ॥ 26॥ dagdhaṃ viśvamiti jñātvā taiḥ sarvairiha sādarāt । haraye tatkathayituṃ kṣīrābdhimagamaṃ drutam ॥ 27॥ tatra gatvā hariṃ dṛṣṭvā vilasantaṃ sukhāsane । supraṇamya susaṃstūya prāvocaṃ sāñjaliḥ suraiḥ ॥ 28॥ trāhi trāhi mahāviṣṇo taptānnaḥ śaraṇāgatān । tapasogreṇa pārvatyāstapantyāḥ parameṇa hi ॥ 29॥ ityākarṇya vacasteṣāmasmadādidivaukasām । śeṣāsane samāviṣṭo'smānuvāca rameśvaraḥ ॥ 30॥ viṣṇuruvāca । jñātaṃ sarvaṃ nidānaṃ me pārvatītapaso'dya vai । yuṣmābhiḥ sahitastvadya vrajāmi parameśvaram ॥ 31॥ mahādevaṃ prārthayāmo girijāprāpaṇāya tam । pāṇigrahārthamadhunā lokānāṃ svastaye'marāḥ ॥ 32॥ varaṃ dātuṃ śivāyai hi devadevaḥ pinākadhṛk । yathā ceṣyati tatraiva kariṣyāmo'dhunā hi tat ॥ 33॥ tasmād vayaṃ gamiṣyāmo yatra rudro mahāprabhuḥ । tapasogreṇa saṃyukto'dyāste paramamaṅgalaḥ ॥ 34॥ brahmovāca । viṣṇostadvacanaṃ śrutvā sarva ūcuḥ surādayaḥ । mahābhītā haṭhāt kuddhāddagdhukāmāt layaṅkarāt ॥ 35॥ devā ūcuḥ । mahābhayaṅkaraṃ kruddhaṃ kālānalasamaprabham । na yāsyāmo vayaṃ sarve virūpākṣaṃ mahāprabhum ॥ 36॥ yathā dagdhaḥ purā tena madano duratikramaḥ । tathaiva krodhayukto naḥ sa dhakṣyati na saṃśayaḥ ॥ 37॥ brahmovāca tadākarṇya vacasteṣāṃ śakrādīnāṃ rameśvaraḥ । sāntvayaṃstānsurānsarvānprovāca sa harirmune ॥ 38॥ hariruvāca । he surā madvacaḥ prītyā śṛṇutādarato'khilāḥ । na vo dhakṣyati sa svāmī devānāṃ bhayanāśanaḥ ॥ 39॥ tasmādbhavadbhirgantavyaṃ mayā sārdhaṃ vicakṣaṇaiḥ । śambhuṃ śubhakaraṃ matvā śaraṇaṃ tasya suprabhoḥ ॥ 40॥ śivaṃ purāṇaṃ puruṣaṃ hyadhīśaṃ vareṇyarūpaṃ hi paraṃ purāṇam । tapo juṣāṇaṃ paramātmarūpaṃ parātparaṃ taṃ śaraṇaṃ vrajāmaḥ ॥ 41॥ brahmovāca । evamuktāstadā devā viṣṇunā prabhaviṣṇunā । jagmuḥ sarve tena saha draṣṭukāmāḥ pinākinam ॥ 42॥ prathamaṃ śailaputryāstattapo draṣṭuṃ tadāśramam । jagmurmārgavaśātsarve viṣṇvādyāḥ sakutūhalāḥ ॥ 43॥ pārvatyāḥ sutapo dṛṣṭvā tejasā vyāpṛtāstadā । praṇemustāṃ jagaddhātrīṃ tejorūpāṃ tapaḥsthitām ॥ 44॥ praśaṃsantastapastasyāḥ sākṣātsiddhitanoḥ surāḥ । jagmustatra tadā te ca yatrāste vṛṣabhadhvajaḥ ॥ 45॥ tatra gatvā ca te devāstvāṃ mune praiṣayaṃstadā । paśyanto dūratastasthuḥ kāmabhasmakṛto harāt ॥ 46॥ nārada tvaṃ śivasthānaṃ tadā gatvābhayaḥ sadā । śivabhakto viśeṣeṇa prasannaṃ dṛṣṭavān prabhum ॥ 47॥ punarāgatya yatnena devānāhūya tāṃstataḥ । nināya śaṅkarasthānaṃ tadā viṣṇvādikānmune ॥ 48॥ atha viṣṇvādayaḥ sarve tatra gatvā śivaṃ prabhum । dadṛśuḥ sukhamāsīnaṃ prasannaṃ bhaktavatsalam ॥ 49॥ yogapaṭṭasthitaṃ śambhuṃ gaṇaiśca parivāritam । taporūpaṃ dadhānaṃ ca parameśvararūpiṇam ॥ 50॥ tato viṣṇurmayānye ca surasiddhamunīśvarāḥ । praṇamya tuṣṭuvuḥ sūktairvedopaniṣadanvitaiḥ ॥ 51॥ iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatīsāntvanaśivadevadarśanavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ ॥ 2.3.23॥

Chapter 24 (the gods petition Shiva through Nandi; Shiva agrees to marry Parvati), verses 1-77 + colophon

देवा ऊचुः । नमो रुद्राय देवाय मदनान्तकराय च ॥ स्तुत्याय भूरिभासाय त्रिनेत्राय नमो नमः ॥ १॥ शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः । महादेवाय प्रभवे त्रिविष्टपतये नमः ॥ २॥ त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः । शम्भुरीशः शङ्करोऽसि दयालुस्त्वं विशेषतः ॥ ३॥ त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो । त्वां विना कः समर्थोऽस्ति दुःखनाशे महेश्वर ॥ ४॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः । कृपया परया युक्तो विज्ञप्तुं शम्भुमारभत् ॥ ५॥ नन्दिकेश्वर उवाच । विष्ण्वादयः सुरगणा मुनिसिद्धसङ्घा- स्त्वां द्रष्टुमेव सुरवर्य विशेषयन्ति । कार्यार्थिनोऽसुरवरैः परिभर्त्स्यमानाः सम्यक् पराभवपदं परमं प्रपन्नाः ॥ ६॥ तस्मात्त्वया हि सर्वेश त्रातव्या मुनयः सुराः । दीनबन्धुर्विशेषेण त्वमुक्तो भक्तवत्सलः ॥ ७॥ ब्रह्मोवाच । एवं दयावता शम्भुर्विज्ञप्तो नन्दिना भृशम् । शनैः शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी ॥ ८॥ ईशोऽथोपरतः शम्भुस्तदा परमकोविदः । समाधेः परमात्मासौ सुरान्सर्वानुवाच ह ॥ ९॥ शम्भुरुवाच । कस्माद्यूयं समायाता मत्समीपं सुरेश्वराः । हरिब्रह्मादयः सर्वे ब्रूत कारणमाशु तत् ॥ १०॥ ब्रह्मोवाच । इति श्रुत्वा वचः शम्भोः सर्वे देवा मुदान्विताः । विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे ॥ ११॥ अथ विष्णुर्महाभक्तो देवानां हितकारकः । मदीरितमुवाचेदं सुरकार्यं महत्तमम् ॥ १२॥ तारकेण कृतं शम्भो देवानां परमाद्भुतम् । कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः ॥ १३॥ हे शम्भो तव पुत्रेणौरसेन हि भविष्यति । निहतस्तारको दैत्यो नान्यथा मम भाषितम् ॥ १४॥ विचार्येत्थं महादेव कृपां कुरु नमोऽस्तु ते । देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात् ॥ १५॥ तस्मात्त्वया गिरिजा देव शम्भो ग्रहीतव्या पाणिना दक्षिणेन । पाणिग्रहेणैव महानुभावां दत्तां गिरीन्द्रेण च तां कुरुष्व ॥ १६॥ विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः । दर्शयन् सद्गतिं तेषां सर्वेषां योगतत्परः ॥ १७॥ शिव उवाच । यदा मे स्वीकृता देवी गिरिजा सर्वसुन्दरी । तदा सर्वे सुरेन्द्राश्च मुनयो ऋषयस्तदा ॥ १८॥ सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि । जीवयिष्यति दुर्गा सा पाणिग्रहणतः स्मरम् ॥ १९॥ मदनो हि मया दग्धः सर्वेषां कार्यसिद्धये । ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा ॥ २०॥ एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ । सुधीः सर्वैश्च देवेन्द्र हठं नो कर्तुमर्हसि ॥ २१॥ दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम् । सर्वे तिष्ठन्तु निष्कामा मया सह सुनिश्चितम् ॥ २२॥ यथाहं च सुराः सर्वे तथा यूयमयत्नतः । तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम् ॥ २३॥ यूयं समाधिना तेन मदनेन विना सुराः । परमानन्दसंयुक्ता निर्विकारा भवन्तु वै ॥ २४॥ पुरावृत्तं स्मरकृतं विस्मृतं यद् विधे हरे । महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम् ॥ २५॥ महाधनुर्धरेणैव मदनेन हठात्सुराः । सर्वेषां ध्यानविध्वंसः कृतस्तेन पुरामराः ॥ २६॥ कामो हि नरकायैव तस्मात् क्रोधोऽभिजायते । क्रोधाद्भवति सम्मोहो मोहाच्च भ्रंशते तपः ॥ २७॥ कामक्रोधौ परित्याज्यौ भवद्भिः सुरसत्तमैः । सर्वैरेव च मन्तव्यं मद्वाक्यं नान्यथा क्वचित् ॥ २८॥ ब्रह्मोवाच । एवं विश्राव्य भगवान् महादेवो वृषध्वजः । सुरान् प्रवाचयामास विधिविष्णू तथा मुनीन् ॥ २९॥ तूष्णीम्भूतोऽभवच्छम्भुर्ध्यानमाश्रित्य वै पुनः । आस्ते पुरा यथा स्थाणुर्गणैश्च परिवारितः ॥ ३०॥ स्वात्मानमात्मना शम्भुरात्मन्येव व्यचिन्तयत् । निरञ्जनं निराभासं निर्विकारं निरामयम् ॥ ३१॥ परात्परतरं नित्यं निर्ममं निरवग्रहम् । शब्दातीतं निर्गुणं च ज्ञानगम्यं परात्परम् ॥ ३२॥ एवं स्वरूपं परमं चिन्तयन् ध्यानमास्थितः । परमानन्दसम्मग्नो बभूव बहुसूतिकृत् ॥ ३३॥ ध्यानस्थितं च सर्वेशं दृष्ट्वा सर्वे दिवौकसः । हरिशक्रादयः सर्वे नन्दिनं प्रोचुरानताः ॥ ३४॥ देवा ऊचुः । किं वयं करवामाद्य विरक्तो ध्यानमास्थितः । शम्भुस्त्वं शङ्करसखः सर्वज्ञः शुचिसेवकः ॥ ३५॥ केनोपायेन गिरिशः प्रसन्नः स्याद्गणाधिप । तदुपायं समाचक्ष्व वयं त्वच्छरणं गताः ॥ ३६॥ ब्रह्मोवाच । इति विज्ञापितो देवैर्मुने हर्यादिभिस्तदा । प्रत्युवाच सुरांस्तान्स नन्दी शम्भुप्रियो गणः ॥ ३७॥ नन्दीश्वर उवाच । हे हरे हे विधे शक्र निर्जरा मुनयस्तथा । श‍ृणुध्वं वचनं मे हि शिवसन्तोषकारकम् ॥ ३८॥ यदि वो हठ एवाद्य शिवदारपरिग्रहे । अतिदीनतया सर्वे सुनुतिं कुरुतादरात् ॥ ३९॥ भक्तेर्वश्यो महादेवो न साधारणतः सुराः । अकार्यमपि सद्भक्त्या करोति परमेश्वरः ॥ ४०॥ एवं कुरुत सर्वे हि विधिविष्णुमुखाः सुराः । यथागतेन मार्गेणान्यथा गच्छत मा चिरम् ॥ ४१॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य मुने विष्ण्वादयः सुराः । तथेति मत्त्वा सुप्रीत्या शङ्करं तुष्टुवुर्हि ते ॥ ४२॥ देवदेव महादेव करुणासागर प्रभो । समुद्धर महाक्लेशात् त्राहि नः शरणागतान् ॥ ४३॥ ब्रह्मोवाच । इत्येवं बहुदीनोक्त्या तुष्टुवुः शङ्करं सुराः । रुरुदुः सुस्वरं सर्वे प्रेमव्याकुलमानसाः ॥ ४४॥ हरिर्मया सुदीनोक्त्या सुविज्ञप्तं चकार ह । संस्मरन्मनसा शम्भुं भक्त्या परमयान्वितः ॥ ४५॥ सुरैरेवं स्तुतः शम्भुर्हरिणा च मया भृशम् । भक्तवात्सल्यतो ध्यानाद्विरतोऽभून्महेश्वरः ॥ ४६॥ उवाच सुप्रसन्नात्मा हर्यादीन्हर्षयन्हरः । विलोक्य करुणादृष्ट्या शङ्करो भक्तवत्सलः ॥ ४७॥ शङ्कर उवाच । हे हरे हे विधे देवाः शक्राद्या युगपत्समे । किमर्थमागता यूयं सत्यं ब्रूत ममाग्रतः ॥ ४८॥ हरिरुवाच । सर्वज्ञस्त्वं महेशान त्वन्तर्याम्यखिलेश्वरः । किं न जानासि चित्तस्थं तथा वच्म्यपि शासनात् ॥ ४९॥ तारकासुरतो दुःखं सम्भूतं विविधं मृड । सर्वेषां नस्तदर्थं हि प्रसन्नोऽकारि वै सुरैः ॥ ५०॥ शिवा सा जनिता शैलात्त्वदर्थं हि हिमालयात् । तस्यां त्वदुद्भवात्पुत्रात्तस्य मृत्युर्न चान्यथा ॥ ५१॥ इति दत्तो ब्रह्मणा हि तस्मै दैत्याय यद्वरः । तदन्यस्मादमृत्युः स बाधते निखिलं जगत् ॥ ५२॥ नारदस्य निदेशात्सा करोति कठिनं तपः । तत्तेजसाखिलं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ५३॥ वरं दातुं शिवायै हि गच्छ त्वं परमेश्वर । देवदुःखं जहि स्वामिन्नस्माकं सुखमावह ॥ ५४॥ देवानां मे महोत्साहो हृदये चास्ति शङ्कर । विवाहं तव सन्द्रष्टुं तत्त्वं कुरु यथोचितम् ॥ ५५॥ रत्यै यद्भवता दत्तो वरस्तस्य परात्पर । प्राप्तोऽवसर एवाशु सफलं स्वपणं कुरु ॥ ५६॥ ब्रह्मोवाच । इत्युक्त्वा तं प्रणम्यैव विष्णुर्देवा महर्षयः । संस्तूय विविधैः स्तोत्रैः सन्तस्थुस्तत्पुरोऽखिलाः ॥ ५७॥ भक्ताधीनः शङ्करोऽपि श्रुत्वा देववचस्तदा । विहस्य प्रत्युवाचाशु वेदमर्यादरक्षकः ॥ ५८॥ शङ्कर उवाच । हे हरे हे विधे देवाः श‍ृणुतादरतोऽखिलाः । यथोचितमहं वच्मि सविशेषं विवेकतः ॥ ५९॥ नोचितं हि विधानं वै विवाहकरणं नृणाम् । महानिगडसंज्ञो हि विवाहो दृढबन्धनः ॥ ६०॥ कुसङ्गा बहवो लोके स्त्रीसङ्गस्तत्र चाधिकः । उद्धरेत्सकलैर्बन्धैर्न स्त्रीसङ्गात्प्रमुच्यते ॥ ६१॥ लोहदारुमयैः पाशैर्दृढं बद्धोऽपि मुच्यते । स्त्र्यादिपाशसुसम्बद्धो मुच्यते न कदाचन ॥ ६२॥ वर्धन्ते विषयाः शश्वन्महाबन्धनकारिणः । विषयाक्रान्तमनसः स्वप्ने मोक्षोऽपि दुर्लभः ॥ ६३॥ सुखमिच्छति चेत्प्राज्ञो विधिवद्विषयांस्त्यजेत् । विषवद्विषयानाहुर्विषयैर्यैर्निहन्यते ॥ ६४॥ जनो विषयिणा साकं वार्तातः पतति क्षणात् । विषयं प्राहुराचार्याः सितालिप्तेन्द्रवारुणीम् ॥ ६५॥ यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः । तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः ॥ ६६॥ भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्यकृत् । अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये ॥ ६७॥ कामरूपाधिपस्यैव पणश्च सफलः कृतः । सुदक्षिणस्य भूपस्य भवबन्धगतस्य हि ॥ ६८॥ गौतमक्लेशकर्ताहं त्र्यम्बकात्मा सुखावहः । तत्कष्टप्रददुष्टानां शापदायी विशेषतः ॥ ६९॥ विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक् । देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः ॥ ७०॥ भक्तार्थमसहं कष्टं बहुशो बहुयत्नतः । विश्वानरमुनेर्दुःखं हृतं गृहपतिर्भवन् ॥ ७१॥ किं बहूक्तेन च हरे विधे सत्यं ब्रवीम्यहम् । मत्पणोऽस्तीति यूयं वै सर्वे जानीथ तत्त्वतः ॥ ७२॥ यदा यदा विपत्तिर्हि भक्तानां भवति क्वचित् । तदा तदा हराम्याशु तत्क्षणात्सर्वशःसदा ॥ ७३॥ जानेऽहं तारकाद्दुःखं सर्वेषां वः समुत्थितम् । असुरात्तद्धरिष्यामि सत्यं सत्यं वदाम्यहम् ॥ ७४॥ नास्ति यद्यपि मे काचिद्विवाहकरणे रुचिः । विवाहयिष्ये गिरिजां पुत्रोत्पादनहेतवे ॥ ७५॥ गच्छत स्वगृहाण्येव निर्भयाः सकलाः सुराः । कार्यं वः साधयिष्यामि नात्र कार्या विचारणा ॥ ७६॥ ब्रह्मोवाच । इत्युक्त्वा मौनमास्थाय समाधिस्थोऽभवद्धरः । सर्वे विष्ण्वादयो देवाः स्वधामानि ययुर्मुने ॥ ७७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारो नाम चतुर्विंशोऽध्यायः ॥ २.३.२४॥

devā ūcuḥ । namo rudrāya devāya madanāntakarāya ca ॥ stutyāya bhūribhāsāya trinetrāya namo namaḥ ॥ 1॥ śipiviṣṭāya bhīmāya bhīmākṣāya namonamaḥ । mahādevāya prabhave triviṣṭapataye namaḥ ॥ 2॥ tvaṃ nāthaḥ sarvalokānāṃ pitā mātā tvamīśvaraḥ । śambhurīśaḥ śaṅkaro'si dayālustvaṃ viśeṣataḥ ॥ 3॥ tvaṃ dhātā sarvajagatāṃ trātumarhasi naḥ prabho । tvāṃ vinā kaḥ samartho'sti duḥkhanāśe maheśvara ॥ 4॥ brahmovāca । ityākarṇya vacasteṣāṃ surāṇāṃ nandikeśvaraḥ । kṛpayā parayā yukto vijñaptuṃ śambhumārabhat ॥ 5॥ nandikeśvara uvāca । viṣṇvādayaḥ suragaṇā munisiddhasaṅghā- stvāṃ draṣṭumeva suravarya viśeṣayanti । kāryārthino'suravaraiḥ paribhartsyamānāḥ samyak parābhavapadaṃ paramaṃ prapannāḥ ॥ 6॥ tasmāttvayā hi sarveśa trātavyā munayaḥ surāḥ । dīnabandhurviśeṣeṇa tvamukto bhaktavatsalaḥ ॥ 7॥ brahmovāca । evaṃ dayāvatā śambhurvijñapto nandinā bhṛśam । śanaiḥ śanairuparamaddhyānādunmīlya cākṣiṇī ॥ 8॥ īśo'thoparataḥ śambhustadā paramakovidaḥ । samādheḥ paramātmāsau surānsarvānuvāca ha ॥ 9॥ śambhuruvāca । kasmādyūyaṃ samāyātā matsamīpaṃ sureśvarāḥ । haribrahmādayaḥ sarve brūta kāraṇamāśu tat ॥ 10॥ brahmovāca । iti śrutvā vacaḥ śambhoḥ sarve devā mudānvitāḥ । viṣṇorvilokayāmāsurmukhaṃ vijñaptihetave ॥ 11॥ atha viṣṇurmahābhakto devānāṃ hitakārakaḥ । madīritamuvācedaṃ surakāryaṃ mahattamam ॥ 12॥ tārakeṇa kṛtaṃ śambho devānāṃ paramādbhutam । kaṣṭātkaṣṭataraṃ devā vijñaptuṃ sarva āgatāḥ ॥ 13॥ he śambho tava putreṇaurasena hi bhaviṣyati । nihatastārako daityo nānyathā mama bhāṣitam ॥ 14॥ vicāryetthaṃ mahādeva kṛpāṃ kuru namo'stu te । devānsamuddhara svāmin kaṣṭāttārakanirmitāt ॥ 15॥ tasmāttvayā girijā deva śambho grahītavyā pāṇinā dakṣiṇena । pāṇigraheṇaiva mahānubhāvāṃ dattāṃ girīndreṇa ca tāṃ kuruṣva ॥ 16॥ viṣṇostadvacanaṃ śrutvā prasanno hyabravīcchivaḥ । darśayan sadgatiṃ teṣāṃ sarveṣāṃ yogatatparaḥ ॥ 17॥ śiva uvāca । yadā me svīkṛtā devī girijā sarvasundarī । tadā sarve surendrāśca munayo ṛṣayastadā ॥ 18॥ sakāmāśca bhaviṣyanti na kṣamāśca pare pathi । jīvayiṣyati durgā sā pāṇigrahaṇataḥ smaram ॥ 19॥ madano hi mayā dagdhaḥ sarveṣāṃ kāryasiddhaye । brahmaṇo vacanādviṣṇo nātra kāryā vicāraṇā ॥ 20॥ evaṃ vimṛśya manasā kāryākāryavyavasthitau । sudhīḥ sarvaiśca devendra haṭhaṃ no kartumarhasi ॥ 21॥ dagdhe kāme mayā viṣṇo surakāryaṃ mahat kṛtam । sarve tiṣṭhantu niṣkāmā mayā saha suniścitam ॥ 22॥ yathāhaṃ ca surāḥ sarve tathā yūyamayatnataḥ । tapaḥ paramasaṃyuktāḥ kariṣyadhvaṃ suduṣkaram ॥ 23॥ yūyaṃ samādhinā tena madanena vinā surāḥ । paramānandasaṃyuktā nirvikārā bhavantu vai ॥ 24॥ purāvṛttaṃ smarakṛtaṃ vismṛtaṃ yad vidhe hare । mahendra munayo devā yattatsarvaṃ vimṛśyatām ॥ 25॥ mahādhanurdhareṇaiva madanena haṭhātsurāḥ । sarveṣāṃ dhyānavidhvaṃsaḥ kṛtastena purāmarāḥ ॥ 26॥ kāmo hi narakāyaiva tasmāt krodho'bhijāyate । krodhādbhavati sammoho mohācca bhraṃśate tapaḥ ॥ 27॥ kāmakrodhau parityājyau bhavadbhiḥ surasattamaiḥ । sarvaireva ca mantavyaṃ madvākyaṃ nānyathā kvacit ॥ 28॥ brahmovāca । evaṃ viśrāvya bhagavān mahādevo vṛṣadhvajaḥ । surān pravācayāmāsa vidhiviṣṇū tathā munīn ॥ 29॥ tūṣṇīmbhūto'bhavacchambhurdhyānamāśritya vai punaḥ । āste purā yathā sthāṇurgaṇaiśca parivāritaḥ ॥ 30॥ svātmānamātmanā śambhurātmanyeva vyacintayat । nirañjanaṃ nirābhāsaṃ nirvikāraṃ nirāmayam ॥ 31॥ parātparataraṃ nityaṃ nirmamaṃ niravagraham । śabdātītaṃ nirguṇaṃ ca jñānagamyaṃ parātparam ॥ 32॥ evaṃ svarūpaṃ paramaṃ cintayan dhyānamāsthitaḥ । paramānandasammagno babhūva bahusūtikṛt ॥ 33॥ dhyānasthitaṃ ca sarveśaṃ dṛṣṭvā sarve divaukasaḥ । hariśakrādayaḥ sarve nandinaṃ procurānatāḥ ॥ 34॥ devā ūcuḥ । kiṃ vayaṃ karavāmādya virakto dhyānamāsthitaḥ । śambhustvaṃ śaṅkarasakhaḥ sarvajñaḥ śucisevakaḥ ॥ 35॥ kenopāyena giriśaḥ prasannaḥ syādgaṇādhipa । tadupāyaṃ samācakṣva vayaṃ tvaccharaṇaṃ gatāḥ ॥ 36॥ brahmovāca । iti vijñāpito devairmune haryādibhistadā । pratyuvāca surāṃstānsa nandī śambhupriyo gaṇaḥ ॥ 37॥ nandīśvara uvāca । he hare he vidhe śakra nirjarā munayastathā । śṛṇudhvaṃ vacanaṃ me hi śivasantoṣakārakam ॥ 38॥ yadi vo haṭha evādya śivadāraparigrahe । atidīnatayā sarve sunutiṃ kurutādarāt ॥ 39॥ bhaktervaśyo mahādevo na sādhāraṇataḥ surāḥ । akāryamapi sadbhaktyā karoti parameśvaraḥ ॥ 40॥ evaṃ kuruta sarve hi vidhiviṣṇumukhāḥ surāḥ । yathāgatena mārgeṇānyathā gacchata mā ciram ॥ 41॥ brahmovāca । ityākarṇya vacastasya mune viṣṇvādayaḥ surāḥ । tatheti mattvā suprītyā śaṅkaraṃ tuṣṭuvurhi te ॥ 42॥ devadeva mahādeva karuṇāsāgara prabho । samuddhara mahākleśāt trāhi naḥ śaraṇāgatān ॥ 43॥ brahmovāca । ityevaṃ bahudīnoktyā tuṣṭuvuḥ śaṅkaraṃ surāḥ । ruruduḥ susvaraṃ sarve premavyākulamānasāḥ ॥ 44॥ harirmayā sudīnoktyā suvijñaptaṃ cakāra ha । saṃsmaranmanasā śambhuṃ bhaktyā paramayānvitaḥ ॥ 45॥ surairevaṃ stutaḥ śambhurhariṇā ca mayā bhṛśam । bhaktavātsalyato dhyānādvirato'bhūnmaheśvaraḥ ॥ 46॥ uvāca suprasannātmā haryādīnharṣayanharaḥ । vilokya karuṇādṛṣṭyā śaṅkaro bhaktavatsalaḥ ॥ 47॥ śaṅkara uvāca । he hare he vidhe devāḥ śakrādyā yugapatsame । kimarthamāgatā yūyaṃ satyaṃ brūta mamāgrataḥ ॥ 48॥ hariruvāca । sarvajñastvaṃ maheśāna tvantaryāmyakhileśvaraḥ । kiṃ na jānāsi cittasthaṃ tathā vacmyapi śāsanāt ॥ 49॥ tārakāsurato duḥkhaṃ sambhūtaṃ vividhaṃ mṛḍa । sarveṣāṃ nastadarthaṃ hi prasanno'kāri vai suraiḥ ॥ 50॥ śivā sā janitā śailāttvadarthaṃ hi himālayāt । tasyāṃ tvadudbhavātputrāttasya mṛtyurna cānyathā ॥ 51॥ iti datto brahmaṇā hi tasmai daityāya yadvaraḥ । tadanyasmādamṛtyuḥ sa bādhate nikhilaṃ jagat ॥ 52॥ nāradasya nideśātsā karoti kaṭhinaṃ tapaḥ । tattejasākhilaṃ vyāptaṃ trailokyaṃ sacarācaram ॥ 53॥ varaṃ dātuṃ śivāyai hi gaccha tvaṃ parameśvara । devaduḥkhaṃ jahi svāminnasmākaṃ sukhamāvaha ॥ 54॥ devānāṃ me mahotsāho hṛdaye cāsti śaṅkara । vivāhaṃ tava sandraṣṭuṃ tattvaṃ kuru yathocitam ॥ 55॥ ratyai yadbhavatā datto varastasya parātpara । prāpto'vasara evāśu saphalaṃ svapaṇaṃ kuru ॥ 56॥ brahmovāca । ityuktvā taṃ praṇamyaiva viṣṇurdevā maharṣayaḥ । saṃstūya vividhaiḥ stotraiḥ santasthustatpuro'khilāḥ ॥ 57॥ bhaktādhīnaḥ śaṅkaro'pi śrutvā devavacastadā । vihasya pratyuvācāśu vedamaryādarakṣakaḥ ॥ 58॥ śaṅkara uvāca । he hare he vidhe devāḥ śṛṇutādarato'khilāḥ । yathocitamahaṃ vacmi saviśeṣaṃ vivekataḥ ॥ 59॥ nocitaṃ hi vidhānaṃ vai vivāhakaraṇaṃ nṛṇām । mahānigaḍasa.njño hi vivāho dṛḍhabandhanaḥ ॥ 60॥ kusaṅgā bahavo loke strīsaṅgastatra cādhikaḥ । uddharetsakalairbandhairna strīsaṅgātpramucyate ॥ 61॥ lohadārumayaiḥ pāśairdṛḍhaṃ baddho'pi mucyate । stryādipāśasusambaddho mucyate na kadācana ॥ 62॥ vardhante viṣayāḥ śaśvanmahābandhanakāriṇaḥ । viṣayākrāntamanasaḥ svapne mokṣo'pi durlabhaḥ ॥ 63॥ sukhamicchati cetprājño vidhivadviṣayāṃstyajet । viṣavadviṣayānāhurviṣayairyairnihanyate ॥ 64॥ jano viṣayiṇā sākaṃ vārtātaḥ patati kṣaṇāt । viṣayaṃ prāhurācāryāḥ sitāliptendravāruṇīm ॥ 65॥ yadyapyevaṃ hi jānāmi sarvaṃ jñānaṃ viśeṣataḥ । tathāpyahaṃ kariṣyāmi prārthanāṃ saphalāṃ ca vaḥ ॥ 66॥ bhaktādhīno'hamevāsmi tadvaśātsarvakāryakṛt । ayathocitakartā hi prasiddho bhuvanatraye ॥ 67॥ kāmarūpādhipasyaiva paṇaśca saphalaḥ kṛtaḥ । sudakṣiṇasya bhūpasya bhavabandhagatasya hi ॥ 68॥ gautamakleśakartāhaṃ tryambakātmā sukhāvahaḥ । tatkaṣṭapradaduṣṭānāṃ śāpadāyī viśeṣataḥ ॥ 69॥ viṣaṃ pītaṃ surārthaṃ hi bhaktavatsalabhāvadhṛk । devakaṣṭaṃ hṛtaṃ yatnātsarvadaiva mayā surāḥ ॥ 70॥ bhaktārthamasahaṃ kaṣṭaṃ bahuśo bahuyatnataḥ । viśvānaramunerduḥkhaṃ hṛtaṃ gṛhapatirbhavan ॥ 71॥ kiṃ bahūktena ca hare vidhe satyaṃ bravīmyaham । matpaṇo'stīti yūyaṃ vai sarve jānītha tattvataḥ ॥ 72॥ yadā yadā vipattirhi bhaktānāṃ bhavati kvacit । tadā tadā harāmyāśu tatkṣaṇātsarvaśaḥsadā ॥ 73॥ jāne'haṃ tārakādduḥkhaṃ sarveṣāṃ vaḥ samutthitam । asurāttaddhariṣyāmi satyaṃ satyaṃ vadāmyaham ॥ 74॥ nāsti yadyapi me kācidvivāhakaraṇe ruciḥ । vivāhayiṣye girijāṃ putrotpādanahetave ॥ 75॥ gacchata svagṛhāṇyeva nirbhayāḥ sakalāḥ surāḥ । kāryaṃ vaḥ sādhayiṣyāmi nātra kāryā vicāraṇā ॥ 76॥ brahmovāca । ityuktvā maunamāsthāya samādhistho'bhavaddharaḥ । sarve viṣṇvādayo devāḥ svadhāmāni yayurmune ॥ 77॥ iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatīvivāhasvīkāro nāma caturviṃśo'dhyāyaḥ ॥ 2.3.24॥

Original text: public domainTranslation & transliteration © YatraBeyond

Sourced and cross-checked against two independent sources; our meanings are written in our own words, never copied. Personal, devotional use — including printing and sharing short excerpts with attribution — is free and encouraged.

Everything on Parvati Ji