Skip to main content
YatraBeyondYatraBeyond
Vrat KathaVishnu JiPan-India

Satyanarayan Vrat Katha

Draft — pending review. This text has been sourced and translated per our editorial policy, but has not yet completed human review against sung versions. Wording may change.

Chapter 1, verses 1-24

श्रीव्यास उवाच । एकदा नैमिषारण्ये ऋषयः शौनकादयः । पप्रच्छुर्मुनयः सर्वे सूतं पौराणिकं खलु ॥ ऋषय ऊचुः । व्रतेन तपसा किं वा प्राप्यते वाञ्छितं फलम् । तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥ सूत उवाच । नारदेनैव सम्पृष्टो भगवान् कमलापतिः । सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥ एकदा नारदो योगी परानुग्रहकाङ्क्षया । पर्यटन् विविधान् लोकान् मर्त्यलोकमुपागतः ॥ ततो दृष्ट्वा जनान्सर्वान् नानाक्लेशसमन्वितान् । नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभिः ॥ केनोपायेन चैतेषां दुःखनाशो भवेद् ध्रुवम् । इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥ तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् । शङ्ख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ॥ दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे । नारद उवाच । नमो वाङ्गमनसातीतरूपायानन्तशक्तये । आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने ॥ सर्वेषामादिभूताय भक्तानामार्तिनाशिने । श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ॥ श्रीभगवानुवाच । किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते । कथयस्व महाभाग तत्सर्वं कथायामि ते ॥ नारद उवाच । मर्त्यलोके जनाः सर्वे नानाक्लेशसमन्विताः । ननायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥ तत्कथं शमयेन्नाथ लघूपायेन तद्वद । श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥ श्रीभगवानुवाच । साधु पृष्टं त्वया वत्स लोकानुग्रहकाङ्क्षया । यत्कृत्वा मुच्यते मोहत् तच्छृणुष्व वदामि ते ॥ व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् । तव स्नेहान्मया वत्स प्रकाशः क्रियतेऽधुना ॥ सत्यनारायणस्यैव व्रतं सम्यग्विधानतः । कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् । तच्छ्रुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥ नारद उवाच । किं फलं किं विधानं च कृतं केनैव तद् व्रतम् । तत्सर्वं विस्तराद् ब्रूहि कदा कार्यं व्रतं प्रभो ॥ श्रीभगवानुवाच । दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ॥ सौभाग्यसन्ततिकरं सर्वत्र विजयप्रदम् । यस्मिन् कस्मिन् दिने मर्त्यो भक्तिश्रद्धासमन्वितः ॥ सत्यनारायणं देवं यजेच्चैव निशामुखे । ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥ नैवेद्यं भक्तितो दद्यात् सपादं भक्ष्यमुत्तमम् । रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ॥ अभावे शालिचूर्णं वा शर्करा वा गुडस्तथा । सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥ विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनैः सह । ततश्च बन्धुभिः सार्धं विप्रांश्च प्रतिभोजयेत् ॥ प्रसादं भक्षयेद् भक्त्या नृत्यगीतादिकं चरेत् । ततश्च स्वगृहं गच्छेत् सत्यनारायणं स्मरन् ॥ एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद् ध्रुवम् । विशेषतः कलियुगे लघूपायोऽस्ति भूतले ॥ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां प्रथमोऽध्यायः ॥

śrīvyāsa uvāca | ekadā naimiṣāraṇye ṛṣayaḥ śaunakādayaḥ | papracchurmunayaḥ sarve sūtaṃ paurāṇikaṃ khalu || ṛṣaya ūcuḥ | vratena tapasā kiṃ vā prāpyate vāñchitaṃ phalam | tatsarvaṃ śrotumicchāmaḥ kathayasva mahāmune || sūta uvāca | nāradenaiva sampṛṣṭo bhagavān kamalāpatiḥ | surarṣaye yathaivāha tacchṛṇudhvaṃ samāhitāḥ || ekadā nārado yogī parānugrahakāṅkṣayā | paryaṭan vividhān lokān martyalokamupāgataḥ || tato dṛṣṭvā janānsarvān nānākleśasamanvitān | nānāyonisamutpannān kliśyamānān svakarmabhiḥ || kenopāyena caiteṣāṃ duḥkhanāśo bhaved dhruvam | iti sañcintya manasā viṣṇulokaṃ gatastadā || tatra nārāyaṇaṃ devaṃ śuklavarṇaṃ caturbhujam | śaṅkha-cakra-gadā-padma-vanamālā-vibhūṣitam || dṛṣṭvā taṃ devadeveśaṃ stotuṃ samupacakrame | nārada uvāca | namo vāṅmanasātītarūpāyānantaśaktaye | ādimadhyāntahīnāya nirguṇāya guṇātmane || sarveṣāmādibhūtāya bhaktānāmārtināśine | śrutvā stotraṃ tato viṣṇurnāradaṃ pratyabhāṣata || śrībhagavānuvāca | kimarthamāgato'si tvaṃ kiṃ te manasi vartate | kathayasva mahābhāga tatsarvaṃ kathāyāmi te || nārada uvāca | martyaloke janāḥ sarve nānākleśasamanvitāḥ | nanāyonisamutpannāḥ pacyante pāpakarmabhiḥ || tatkathaṃ śamayennātha laghūpāyena tadvada | śrotumicchāmi tatsarvaṃ kṛpāsti yadi te mayi || śrībhagavānuvāca | sādhu pṛṣṭaṃ tvayā vatsa lokānugrahakāṅkṣayā | yatkṛtvā mucyate mohat tacchṛṇuṣva vadāmi te || vratamasti mahatpuṇyaṃ svarge martye ca durlabham | tava snehānmayā vatsa prakāśaḥ kriyate'dhunā || satyanārāyaṇasyaiva vrataṃ samyagvidhānataḥ | kṛtvā sadyaḥ sukhaṃ bhuktvā paratra mokṣamāpnuyāt | tacchrutvā bhagavadvākyaṃ nārado munirabravīt || nārada uvāca | kiṃ phalaṃ kiṃ vidhānaṃ ca kṛtaṃ kenaiva tad vratam | tatsarvaṃ vistarād brūhi kadā kāryaṃ vrataṃ prabho || śrībhagavānuvāca | duḥkhaśokādiśamanaṃ dhanadhānyapravardhanam || saubhāgyasantatikaraṃ sarvatra vijayapradam | yasmin kasmin dine martyo bhaktiśraddhāsamanvitaḥ || satyanārāyaṇaṃ devaṃ yajeccaiva niśāmukhe | brāhmaṇairbāndhavaiścaiva sahito dharmatatparaḥ || naivedyaṃ bhaktito dadyāt sapādaṃ bhakṣyamuttamam | rambhāphalaṃ ghṛtaṃ kṣīraṃ godhūmasya ca cūrṇakam || abhāve śālicūrṇaṃ vā śarkarā vā guḍastathā | sapādaṃ sarvabhakṣyāṇi caikīkṛtya nivedayet || viprāya dakṣiṇāṃ dadyāt kathāṃ śrutvā janaiḥ saha | tataśca bandhubhiḥ sārdhaṃ viprāṃśca pratibhojayet || prasādaṃ bhakṣayed bhaktyā nṛtyagītādikaṃ caret | tataśca svagṛhaṃ gacchet satyanārāyaṇaṃ smaran || evaṃ kṛte manuṣyāṇāṃ vāñchāsiddhirbhaved dhruvam | viśeṣataḥ kaliyuge laghūpāyo'sti bhūtale || || iti śrīskandapurāṇe revākhaṇḍe śrīsatyanārāyaṇavratakathāyāṃ prathamo'dhyāyaḥ ||

Chapter 2, verses 1-27

सूत उवाच । अथान्यत् सम्प्रवक्ष्यामि कृतं येन पुरा द्विजाः । कश्चित् काशीपुरे रम्ये ह्यासीद्विप्रोऽतिनिर्धनः ॥ क्षुत्तृड्भ्यां व्याकुलोभूत्वा नित्यं बभ्राम भूतले । दुःखितं ब्राह्मणं दृष्ट्वा भगवान् ब्राह्मणप्रियः ॥ वृद्धब्राह्मण रूपस्तं पप्रच्छ द्विजमादरात् । किमर्थं भ्रमसे विप्र महीं नित्यं सुदुःखितः । तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विज सत्तम ॥ ब्राह्मण उवाच । ब्राह्मणोऽति दरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम् ॥ उपायं यदि जानासि कृपया कथय प्रभो । वृद्धब्राह्मण उवाच । सत्यनारायणो विष्णुर्वाञ्छितार्थफलप्रदः ॥ तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम् । यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ विधानं च व्रतस्यापि विप्रायाभाष्य यत्नतः । सत्यनारायणो वृद्धस्तत्रैवान्तरधीयत ॥ तद् व्रतं सङ्करिष्यामि यदुक्तं ब्राह्मणेन वै । इति सञ्चिन्त्य विप्रोऽसौ रात्रौ निद्रा न लब्धवान् ॥ ततः प्रातः समुत्थाय सत्यनारायणव्रतम् । करिष्य इति सङ्कल्प्य भिक्षार्थमगमद्विजः ॥ तस्मिन्नेव दिने विप्रः प्रचुरं द्रव्यमाप्तवान् । तेनैव बन्धुभिः सार्धं सत्यस्य व्रतमाचरत् ॥ सर्वदुःखविनिर्मुक्तः सर्वसम्पत्समन्वितः । बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ॥ ततः प्रभृति कालं च मासि मासि व्रतं कृतम् । एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तमः ॥ सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान् । व्रतमस्य यदा विप्राः पृथिव्यां सङ्करिष्यति ॥ तदैव सर्वदुःखं तु मनुजस्य विनश्यति । एवं नारायणेनोक्तं नारदाय महात्मने ॥ मया तत्कथितं विप्राः किमन्यत् कथयामि वः । ऋषय ऊचुः । तस्माद् विप्राच्छ्रुतं केन पृथिव्यां चरितं मुने । तत्सर्वं श्रोतुमिच्छामः श्रद्धाऽस्माकं प्रजायते ॥ सूत उवाच । शृणुध्वं मुनयः सर्वे व्रतं येन कृतं भुवि । एकदा स द्विजवरो यथाविभव विस्तरैः ॥ बन्धुभिः स्वजनैः सार्धं व्रतं कर्तुं समुद्यतः । एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत् ॥ बहिः काष्ठं च संस्थाप्य विप्रस्य गृहमाययौ । तृष्णाया पीडितात्मा च दृष्ट्वा विप्रं कृतं व्रतम् ॥ प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया । कृते किं फलमाप्नोति विस्तराद् वद मे प्रभो ॥ विप्र उवाच । सत्यनारायणस्येदं व्रतं सर्वेप्सितप्रदम् । तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥ तस्मादेतद् व्रतं ज्ञात्वा काष्ठक्रेताऽतिहर्षितः । पपौ जलं प्रसादं च भुक्त्वा स नगरं ययौ ॥ सत्यनारायणं देवं मनसा इत्यचिन्तयत् । काष्ठं विक्रयतो ग्रामे प्राप्यते चाद्य यद् धनम् ॥ तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् । इति सञ्चिन्त्य मनसा काष्ठं धृत्वा तु मस्तके ॥ जगाम नगरे रम्ये धनिनां यत्र संस्थितिः । तद्दिने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ ॥ ततः प्रसन्नहृदयः सुपक्वं कदली फलम् । शर्कराघृतदुग्धं च गोधूमस्य च चूर्णकम् ॥ कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ । ततो बन्धून् समाहूय चकार विधिना व्रतम् ॥ तद् व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत् । इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां द्वितीयोऽध्यायः ॥

sūta uvāca | athānyat sampravakṣyāmi kṛtaṃ yena purā dvijāḥ | kaścit kāśīpure ramye hyāsīdviproʼtinirdhanaḥ || kṣuttṛḍbhyāṃ vyākulobhūtvā nityaṃ babhrāma bhūtale | duḥkhitaṃ brāhmaṇaṃ dṛṣṭvā bhagavān brāhmaṇapriyaḥ || vṛddhabrāhmaṇa rūpastaṃ papraccha dvijamādarāt | kimarthaṃ bhramase vipra mahīṃ nityaṃ suduḥkhitaḥ | tatsarvaṃ śrotumicchāmi kathyatāṃ dvija sattama || brāhmaṇa uvāca | brāhmaṇoʼti daridroʼhaṃ bhikṣārthaṃ vai bhrame mahīm || upāyaṃ yadi jānāsi kṛpayā kathaya prabho | vṛddhabrāhmaṇa uvāca | satyanārāyaṇo viṣṇurvāñchitārthaphalapradaḥ || tasya tvaṃ pūjanaṃ vipra kuruṣva vratamuttamam | yatkṛtvā sarvaduḥkhebhyo mukto bhavati mānavaḥ || vidhānaṃ ca vratasyāpi viprāyābhāṣya yatnataḥ | satyanārāyaṇo vṛddhastatraivāntaradhīyata || tad vrataṃ saṅkariṣyāmi yaduktaṃ brāhmaṇena vai | iti sañcintya viproʼsau rātrau nidrā na labdhavān || tataḥ prātaḥ samutthāya satyanārāyaṇavratam | kariṣya iti saṅkalpya bhikṣārthamagamadvijaḥ || tasminneva dine vipraḥ pracuraṃ dravyamāptavān | tenaiva bandhubhiḥ sārdhaṃ satyasya vratamācarat || sarvaduḥkhavinirmuktaḥ sarvasampatsamanvitaḥ | babhūva sa dvijaśreṣṭho vratasyāsya prabhāvataḥ || tataḥ prabhṛti kālaṃ ca māsi māsi vrataṃ kṛtam | evaṃ nārāyaṇasyedaṃ vrataṃ kṛtvā dvijottamaḥ || sarvapāpavinirmukto durlabhaṃ mokṣamāptavān | vratamasya yadā viprāḥ pṛthivyāṃ saṅkariṣyati || tadaiva sarvaduḥkhaṃ tu manujasya vinaśyati | evaṃ nārāyaṇenoktaṃ nāradāya mahātmane || mayā tatkathitaṃ viprāḥ kimanyat kathayāmi vaḥ | ṛṣaya ūcuḥ | tasmād viprācchrutaṃ kena pṛthivyāṃ caritaṃ mune | tatsarvaṃ śrotumicchāmaḥ śraddhāʼsmākaṃ prajāyate || sūta uvāca | śṛṇudhvaṃ munayaḥ sarve vrataṃ yena kṛtaṃ bhuvi | ekadā sa dvijavaro yathāvibhava vistaraiḥ || bandhubhiḥ svajanaiḥ sārdhaṃ vrataṃ kartuṃ samudyataḥ | etasminnantare kāle kāṣṭhakretā samāgamat || bahiḥ kāṣṭhaṃ ca saṃsthāpya viprasya gṛhamāyayau | tṛṣṇāyā pīḍitātmā ca dṛṣṭvā vipraṃ kṛtaṃ vratam || praṇipatya dvijaṃ prāha kimidaṃ kriyate tvayā | kṛte kiṃ phalamāpnoti vistarād vada me prabho || vipra uvāca | satyanārāyaṇasyedaṃ vrataṃ sarvepsitapradam | tasya prasādānme sarvaṃ dhanadhānyādikaṃ mahat || tasmādetad vrataṃ jñātvā kāṣṭhakretāʼtiharṣitaḥ | papau jalaṃ prasādaṃ ca bhuktvā sa nagaraṃ yayau || satyanārāyaṇaṃ devaṃ manasā ityacintayat | kāṣṭhaṃ vikrayato grāme prāpyate cādya yad dhanam || tenaiva satyadevasya kariṣye vratamuttamam | iti sañcintya manasā kāṣṭhaṃ dhṛtvā tu mastake || jagāma nagare ramye dhanināṃ yatra saṃsthitiḥ | taddine kāṣṭhamūlyaṃ ca dviguṇaṃ prāptavānasau || tataḥ prasannahṛdayaḥ supakvaṃ kadalī phalam | śarkarāghṛtadugdhaṃ ca godhūmasya ca cūrṇakam || kṛtvaikatra sapādaṃ ca gṛhītvā svagṛhaṃ yayau | tato bandhūn samāhūya cakāra vidhinā vratam || tad vratasya prabhāveṇa dhanaputrānvitoʼbhavat | ihaloke sukhaṃ bhuktvā cānte satyapuraṃ yayau || || iti śrīskandapurāṇe revākhaṇḍe śrīsatyanārāyaṇavratakathāyāṃ dvitīyoʼdhyāyaḥ ||

Chapter 3, verses 1-51

सूत उवाच । पुनरग्रे प्रवक्ष्यामि शृणुध्वं मुनि सत्तमाः । पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ जितेन्द्रियः सत्यवादी ययौ देवालयं प्रति । दिने दिने धनं दत्त्वा द्विजान् सन्तोषयत् सुधीः ॥ भार्या तस्य प्रमुग्धा च सरोजवदना सती । भद्रशीला नदी तीरे सत्यस्य व्रतमाचरत् ॥ एतस्मिन्नन्तरे तत्र साधुरेकः समागतः । वाणिज्यार्थं बहुधनैरनेकैः परिपूरितः ॥ नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति । दृष्ट्वा स व्रतिनं भूपं प्रपच्छ विनयान्वितः ॥ साधुरुवाच । किमिदं कुरुषे राजन् भक्तियुक्तेन चेतसा । प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम् ॥ राजोवाच । पूजनं क्रियते साधो विष्णोरतुलतेजसः । व्रतं च स्वजनैः सार्धं पुत्राद्यावाप्ति काम्यया ॥ भूपस्य वचनं श्रुत्वा साधुः प्रोवाच सादरम् । सर्वं कथय मे राजन् करिष्येऽहं तवोदितम् ॥ ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् । ततो निवृत्त्य वाणिज्यात् सानन्दो गृहमागतः ॥ भार्यायै कथितं सर्वं व्रतं सन्तति दायकम् । तदा व्रतं करिष्यामि यदा मे सन्ततिर्भवेत् ॥ इति लीलावतीं प्राह पत्नीं साधुः स सत्तमः । एकस्मिन् दिवसे तस्य भार्या लीलावती सती ॥ भर्तृयुक्तानन्दचित्ताऽभवद् धर्मपरायणा । गर्भिणी साऽभवत् तस्य भार्या सत्यप्रसादतः ॥ दशमे मासि वै तस्याः कन्यारत्नमजायत । दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥ नाम्ना कलावती चेति तन्नामकरणं कृतम् । ततो लीलावती प्राह स्वामिनं मधुरं वचः ॥ न करोषि किमर्थं वै पुरा सङ्कल्पितं व्रतम् । साधुरुवाच । विवाह समये त्वस्याः करिष्यामि व्रतं प्रिये ॥ इति भार्यां समाश्वास्य जगाम नगरं प्रति । ततः कलावती कन्या ववृधे पितृवेश्मनि ॥ दृष्ट्वा कन्यां ततः साधुर्नगरे सखिभिः सह । मन्त्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित् ॥ विवाहार्थं च कन्याया वरं श्रेष्ठं विचारय । तेनाज्ञप्तश्च दूतोऽसौ काञ्चनं नगरं ययौ ॥ तस्मादेकं वणिक्पुत्रं समादायागतो हि सः । दृष्ट्वा तु सुन्दरं बालं वणिक्पुत्रं गुणान्वितम् ॥ ज्ञातिभिर्बन्धुभिः सार्धं परितुष्टेन चेतसा । दत्तावान् साधुपुत्राय कन्यां विधिविधानतः ॥ ततोऽभाग्यवशात् तेन विस्मृतं व्रतमुत्तमम् । विवाहसमये तस्यास्तेन रुष्टो भवत् प्रभुः ॥ ततः कालेन नियतो निजकर्म विशारदः । वाणिज्यार्थं ततः शीघ्रं जामातृ सहितो वणिक् ॥ रत्नसारपुरे रम्ये गत्वा सिन्धु समीपतः । वाणिज्यमकरोत् साधुर्जामात्रा श्रीमता सह ॥ तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च । एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥ भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् । दारुणं कठिनं चास्य महद् दुःखं भविष्यति ॥ एकस्मिन्दिवसे राज्ञो धनमादाय तस्करः । तत्रैव चागत श्चौरो वणिजौ यत्र संस्थितौ ॥ तत्पश्चाद् धावकान् दूतान् दृष्टवा भीतेन चेतसा । धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षितः ॥ ततो दूताः समायाता यत्रास्ते सज्जनो वणिक् । दृष्ट्वा नृपधनं तत्र बद्ध्वाऽऽनीतौ वणिक्सुतौ ॥ हर्षेण धावमानाश्च प्रोचुर्नृपसमीपतः । तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥ राज्ञाऽऽज्ञप्तास्ततः शीघ्रं दृढं बद्ध्वा तु ता वुभौ । स्थापितौ द्वौ महादुर्गे कारागारेऽविचारतः ॥ मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वचः । अतस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना ॥ तच्छापाच्च तयोर्गेहे भार्या चैवाति दुःखिता । चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ॥ आधिव्याधिसमायुक्ता क्षुत्पिपाशाति दुःखिता । अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे । कलावती तु कन्यापि बभ्राम प्रतिवासरम् ॥ एकस्मिन् दिवसे याता क्षुधार्ता द्विजमन्दिरम् । गत्वाऽपश्यद् व्रतं तत्र सत्यनारायणस्य च ॥ उपविश्य कथां श्रुत्वा वरं प्रार्थितवत्यपि । प्रसाद भक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥ माता कलावतीं कन्यां कथयामास प्रेमतः । पुत्रि रात्रौ स्थिता कुत्र किं ते मनसि वर्तते ॥ कन्या कलावती प्राह मातरं प्रति सत्वरम् । द्विजालये व्रतं मातर्दृष्टं वाञ्छितसिद्धिदम् ॥ तच्छ्रुत्वा कन्यका वाक्यं व्रतं कर्तुं समुद्यता । सा मुदा तु वणिग्भार्या सत्यनारायणस्य च ॥ व्रतं चक्रे सैव साध्वी बन्धुभिः स्वजनैः सह । भर्तृजामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ॥ अपराधं च मे भर्तुर्जामातुः क्षन्तुमर्हसि । व्रतेनानेन तुष्टोऽसौ सत्यनारायणः पुनः ॥ दर्शयामास स्वप्नं ही चन्द्रकेतुं नृपोत्तमम् । बन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥ देयं धनं च तत्सर्वं गृहीतं यत् त्वयाऽधुना । नो चेत् त्वां नाशयिष्यामि सराज्यधनपुत्रकम् ॥ एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभुः । ततः प्रभातसमये राजा च स्वजनैः सह ॥ उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति । बद्धौ महाजनौ शीघ्रं मोचय द्वौ वणिक्सुतौ ॥ इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ । समानीय नृपस्याग्रे प्राहुस्ते विनयान्विताः ॥ आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबन्धनात् । ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम् ॥ स्मरन्तौ पूर्व वृत्तान्तं नोचतुर्भयविह्वलौ । राजा वणिक्सुतौ वीक्ष्य वचः प्रोवाच सादरम् ॥ देवात् प्राप्तं महद्दुःखमिदानीं नास्ति वै भयम् । तदा निगडसन्त्यागं क्षौरकर्माद्यकारयत् ॥ वस्त्रालङ्कारकं दत्त्वा परितोष्य नृपश्च तौ । पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोषयद् भृशम् ॥ पुरानीतं तु यद् द्रव्यं द्विगुणीकृत्य दत्तवान् । प्रोवाच च ततो राजा गच्छ साधो निजाश्रमम् ॥ राजानं प्रणिपत्याह गन्तव्यं त्वत्प्रसादतः । इत्युक्त्वा तौ महावैश्यौ जग्मतुः स्वगृहं प्रति ॥ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां तृतीयोऽध्यायः ॥

sūta uvāca | punaragre pravakṣyāmi śṛṇudhvaṃ muni sattamāḥ | purā colkāmukho nāma nṛpaścāsīnmahāmatiḥ || jitendriyaḥ satyavādī yayau devālayaṃ prati | dine dine dhanaṃ dattvā dvijān santoṣayat sudhīḥ || bhāryā tasya pramugdhā ca sarojavadanā satī | bhadraśīlā nadī tīre satyasya vratamācarat || etasminnantare tatra sādhurekaḥ samāgataḥ | vāṇijyārthaṃ bahudhanairanekaiḥ paripūritaḥ || nāvaṃ saṃsthāpya tattīre jagāma nṛpatiṃ prati | dṛṣṭvā sa vratinaṃ bhūpaṃ prapaccha vinayānvitaḥ || sādhuruvāca | kimidaṃ kuruṣe rājan bhaktiyuktena cetasā | prakāśaṃ kuru tatsarvaṃ śrotumicchāmi sāmpratam || rājovāca | pūjanaṃ kriyate sādho viṣṇoratulatejasaḥ | vrataṃ ca svajanaiḥ sārdhaṃ putrādyāvāpti kāmyayā || bhūpasya vacanaṃ śrutvā sādhuḥ provāca sādaram | sarvaṃ kathaya me rājan kariṣyeʼhaṃ tavoditam || mamāpi santatirnāsti hyetasmājjāyate dhruvam | tato nivṛttya vāṇijyāt sānando gṛhamāgataḥ || bhāryāyai kathitaṃ sarvaṃ vrataṃ santati dāyakam | tadā vrataṃ kariṣyāmi yadā me santatirbhavet || iti līlāvatīṃ prāha patnīṃ sādhuḥ sa sattamaḥ | ekasmin divase tasya bhāryā līlāvatī satī || bhartṛyuktānandacittāʼbhavad dharmaparāyaṇā | garbhiṇī sāʼbhavat tasya bhāryā satyaprasādataḥ || daśame māsi vai tasyāḥ kanyāratnamajāyata | dine dine sā vavṛdhe śuklapakṣe yathā śaśī || nāmnā kalāvatī ceti tannāmakaraṇaṃ kṛtam | tato līlāvatī prāha svāminaṃ madhuraṃ vacaḥ || na karoṣi kimarthaṃ vai purā saṅkalpitaṃ vratam | sādhuruvāca | vivāha samaye tvasyāḥ kariṣyāmi vrataṃ priye || iti bhāryāṃ samāśvāsya jagāma nagaraṃ prati | tataḥ kalāvatī kanyā vavṛdhe pitṛveśmani || dṛṣṭvā kanyāṃ tataḥ sādhurnagare sakhibhiḥ saha | mantrayitvā drutaṃ dūtaṃ preṣayāmāsa dharmavit || vivāhārthaṃ ca kanyāyā varaṃ śreṣṭhaṃ vicāraya | tenājñaptaśca dūtoʼsau kāñcanaṃ nagaraṃ yayau || tasmādekaṃ vaṇikputraṃ samādāyāgato hi saḥ | dṛṣṭvā tu sundaraṃ bālaṃ vaṇikputraṃ guṇānvitam || jñātibhirbandhubhiḥ sārdhaṃ parituṣṭena cetasā | dattāvān sādhuputrāya kanyāṃ vidhividhānataḥ || tatoʼbhāgyavaśāt tena vismṛtaṃ vratamuttamam | vivāhasamaye tasyāstena ruṣṭo bhavat prabhuḥ || tataḥ kālena niyato nijakarma viśāradaḥ | vāṇijyārthaṃ tataḥ śīghraṃ jāmātṛ sahito vaṇik || ratnasārapure ramye gatvā sindhu samīpataḥ | vāṇijyamakarot sādhurjāmātrā śrīmatā saha || tau gatau nagare ramye candraketornṛpasya ca | etasminneva kāle tu satyanārāyaṇaḥ prabhuḥ || bhraṣṭapratijñamālokya śāpaṃ tasmai pradattavān | dāruṇaṃ kaṭhinaṃ cāsya mahad duḥkhaṃ bhaviṣyati || ekasmindivase rājño dhanamādāya taskaraḥ | tatraiva cāgata ścauro vaṇijau yatra saṃsthitau || tatpaścād dhāvakān dūtān dṛṣṭavā bhītena cetasā | dhanaṃ saṃsthāpya tatraiva sa tu śīghramalakṣitaḥ || tato dūtāḥ samāyātā yatrāste sajjano vaṇik | dṛṣṭvā nṛpadhanaṃ tatra baddhvāʼānītau vaṇiksutau || harṣeṇa dhāvamānāśca procurnṛpasamīpataḥ | taskarau dvau samānītau vilokyājñāpaya prabho || rājñāʼājñaptāstataḥ śīghraṃ dṛḍhaṃ baddhvā tu tā vubhau | sthāpitau dvau mahādurge kārāgāreʼvicārataḥ || māyayā satyadevasya na śrutaṃ kaistayorvacaḥ | atastayordhanaṃ rājñā gṛhītaṃ candraketunā || tacchāpācca tayorgehe bhāryā caivāti duḥkhitā | caureṇāpahṛtaṃ sarvaṃ gṛhe yacca sthitaṃ dhanam || ādhivyādhisamāyuktā kṣutpipāśāti duḥkhitā | annacintāparā bhūtvā babhrāma ca gṛhe gṛhe | kalāvatī tu kanyāpi babhrāma prativāsaram || ekasmin divase yātā kṣudhārtā dvijamandiram | gatvāʼpaśyad vrataṃ tatra satyanārāyaṇasya ca || upaviśya kathāṃ śrutvā varaṃ prārthitavatyapi | prasāda bhakṣaṇaṃ kṛtvā yayau rātrau gṛhaṃ prati || mātā kalāvatīṃ kanyāṃ kathayāmāsa premataḥ | putri rātrau sthitā kutra kiṃ te manasi vartate || kanyā kalāvatī prāha mātaraṃ prati satvaram | dvijālaye vrataṃ mātardṛṣṭaṃ vāñchitasiddhidam || tacchrutvā kanyakā vākyaṃ vrataṃ kartuṃ samudyatā | sā mudā tu vaṇigbhāryā satyanārāyaṇasya ca || vrataṃ cakre saiva sādhvī bandhubhiḥ svajanaiḥ saha | bhartṛjāmātarau kṣipramāgacchetāṃ svamāśramam || aparādhaṃ ca me bharturjāmātuḥ kṣantumarhasi | vratenānena tuṣṭoʼsau satyanārāyaṇaḥ punaḥ || darśayāmāsa svapnaṃ hī candraketuṃ nṛpottamam | bandinau mocaya prātarvaṇijau nṛpasattama || deyaṃ dhanaṃ ca tatsarvaṃ gṛhītaṃ yat tvayāʼdhunā | no cet tvāṃ nāśayiṣyāmi sarājyadhanaputrakam || evamābhāṣya rājānaṃ dhyānagamyoʼbhavat prabhuḥ | tataḥ prabhātasamaye rājā ca svajanaiḥ saha || upaviśya sabhāmadhye prāha svapnaṃ janaṃ prati | baddhau mahājanau śīghraṃ mocaya dvau vaṇiksutau || iti rājño vacaḥ śrutvā mocayitvā mahājanau | samānīya nṛpasyāgre prāhuste vinayānvitāḥ || ānītau dvau vaṇikputrau muktau nigaḍabandhanāt | tato mahājanau natvā candraketuṃ nṛpottamam || smarantau pūrva vṛttāntaṃ nocaturbhayavihvalau | rājā vaṇiksutau vīkṣya vacaḥ provāca sādaram || devāt prāptaṃ mahadduḥkhamidānīṃ nāsti vai bhayam | tadā nigaḍasantyāgaṃ kṣaurakarmādyakārayat || vastrālaṅkārakaṃ dattvā paritoṣya nṛpaśca tau | puraskṛtya vaṇikputrau vacasāʼtoṣayad bhṛśam || purānītaṃ tu yad dravyaṃ dviguṇīkṛtya dattavān | provāca ca tato rājā gaccha sādho nijāśramam || rājānaṃ praṇipatyāha gantavyaṃ tvatprasādataḥ | ityuktvā tau mahāvaiśyau jagmatuḥ svagṛhaṃ prati || || iti śrīskandapurāṇe revākhaṇḍe śrīsatyanārāyaṇavratakathāyāṃ tṛtīyoʼdhyāyaḥ ||

Chapter 4, verses 1-44

सूत उवाच । यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम् । ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ ॥ कियद् दूरे गते साधो सत्यनारायणः प्रभुः । जिज्ञासां कृतवान् साधौ किमस्ति तव नौस्थितम् ॥ ततो महाजनौ मत्तौ हेलया च प्रहस्य वै । कथं पृच्छसि भो दण्डिन् मुद्रां नेतुं किमिच्छसि ॥ लतापत्रादिकं चैव वर्तते तरणौ मम । निष्ठुरं च वचः श्रुत्वा सत्यं भवतु ते वचः ॥ एवमुक्त्वा गतः शीघ्रं दण्डी तस्य समीपतः । कियद् दूरे ततो गत्वा स्थितः सिन्धु समीपतः ॥ गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा । उत्थितां तरणीं दृष्ट्वा विस्मयं परमं ययौ ॥ दृष्ट्वा लतादिकं चैव मूर्च्छितो न्यपतद् भुवि । लब्धसंज्ञो वणिक्पुत्रस्ततश्चिन्तान्वितोऽभवत् ॥ तदा तु दुहितुः कान्तो वचनं चेदमब्रवीत् । किमर्थं क्रियते शोकः शापो दत्तश्च दण्डिना ॥ शक्यते तेन सर्वं हि कर्तुं चात्र न संशयः । अतस्तच्छरणं यामो वाञ्छितार्थो भविष्यति ॥ जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा । दृष्ट्वा च दण्डिनं भक्त्या नत्वा प्रोवाच सादरम् ॥ क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ । एवं पुनः पुनर्नत्वा महाशोकाकुलोऽभवत् ॥ प्रोवाच वचनं दण्डी विलपन्तं विलोक्य च । मा रोदीः शृणु मद्वाक्यं मम पूजाबहिर्मुखः ॥ ममाज्ञया च दुर्बुद्धे लब्धं दुःखं मुहुर्मुहुः । तच्छ्रुत्वा भगवद्वाक्यं स्तुतिं कर्तुं समुद्यतः ॥ साधुरुवाच । त्वन्मायामोहिताः सर्वे ब्रह्माद्यास्त्रिदिवौकसः । न जानन्ति गुणान् रूपं तवाश्चर्यमिदं प्रभो ॥ मूढोऽहं त्वां कथं जाने मोहितस्तव मायया । प्रसीद पूजयिष्यामि यथाविभवविस्तरैः ॥ पुरा वित्तं च तत् सर्वं त्राहि मां शरणागतम् । श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दनः ॥ वरं च वाञ्छितं दत्त्वा तत्रैवान्तर्दधे हरिः । ततो नावं समारूह्य दृष्ट्वा वित्तप्रपूरिताम् ॥ कृपया सत्यदेवस्य सफलं वाञ्छितं मम । इत्युक्त्वा स्वजनैः सार्धं पूजां कृत्वा यथाविधि ॥ हर्षेण चाभवत् पूर्णः सत्यदेवप्रसादतः । नावं संयोज्य यत्नेन स्वदेशगमनं कृतम् ॥ साधुर्जामातरं प्राह पश्य रत्नपुरीं मम । दूतं च प्रेषयामास निजवित्तस्य रक्षकम् ॥ ततोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च । प्रोवाच वाञ्छितं वाक्यं नत्वा बद्धाञ्जलिस्तदा ॥ निकटे नगरस्यैव जामात्रा सहितो वणिक् । आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युतः ॥ श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती । सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति ॥ व्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च । इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च ॥ प्रसादं च परित्यज्य गता साऽपि पतिं प्रति । तेन रुष्टाः सत्यदेवो भर्तारं तरणिं तथा ॥ संहृत्य च धनैः सार्धं जले तस्यावमज्जयत् । ततः कलावती कन्या न विलोक्य निजं पतिम् ॥ शोकेन महता तत्र रुदन्ती चापतद् भुवि । दृष्ट्वा तथाविधां नावं कन्यां च बहुदुःखिताम् ॥ भीतेन मनसा साधुः किमाश्चर्यमिदं भवेत् । चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः ॥ ततो लीलावती कन्यां दृष्ट्वा सा विह्वलाऽभवत् । विललापातिदुःखेन भर्तारं चेदमब्रवीत ॥ इदानीं नौकया सार्धं कथं सोऽभूदलक्षितः । न जाने कस्य देवस्य हेलया चैव सा हृता ॥ सत्यदेवस्य माहात्म्यं ज्ञातुं वा केन शक्यते । इत्युक्त्वा विललापैव ततश्च स्वजनैः सह ॥ ततो लीलावती कन्यां क्रौडे कृत्वा रुरोद ह । ततः कलावती कन्या नष्टे स्वामिनि दुःखिता ॥ गृहीत्वा पादुके तस्यानुगतुं च मनोदधे । कन्यायाश्चरितं दृष्ट्वा सभार्यः सज्जनो वणिक् ॥ अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित् । हृतं वा सत्यदेवेन भ्रान्तोऽहं सत्यमायया ॥ सत्यपूजां करिष्यामि यथाविभवविस्तरैः । इति सर्वान् समाहूय कथयित्वा मनोरथम् ॥ नत्वा च दण्डवद् भूमौ सत्यदेवं पुनः पुनः । ततस्तुष्टः सत्यदेवो दीनानां परिपालकः ॥ जगाद वचनं चैनं कृपया भक्तवत्सलः । त्यक्त्वा प्रसादं ते कन्या पतिं द्रष्टुं समागता ॥ अतोऽदृष्टोऽभवत्तस्याः कन्यकायाः पतिर्ध्रुवम् । गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुनः ॥ लब्धभर्त्री सुता साधो भविष्यति न संशयः । कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात् ॥ क्षिप्रं तदा गृहं गत्वा प्रसादं च बुभोज सा । पश्चात् सा पुनरागत्य ददर्श स्वजनं पतिम् ॥ ततः कलावती कन्या जगाद पितरं प्रति । इदानीं च गृहं याहि विलम्बं कुरुषे कथम् ॥ तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद्वणिक्सुतः । पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ॥ धनैर्बन्धुगणैः सार्धं जगाम निजमन्दिरम् । पौर्णमास्यां च सङ्क्रान्तौ कृतवान् सत्यस्य पूजनम् ॥ इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां चतुर्थोऽध्यायः ॥

sūta uvāca | yātrāṃ tu kṛtavān sādhurmaṅgalāyanapūrvikām | brāhmaṇebhyo dhanaṃ dattvā tadā tu nagaraṃ yayau || kiyad dūre gate sādho satyanārāyaṇaḥ prabhuḥ | jijñāsāṃ kṛtavān sādhau kimasti tava nausthitam || tato mahājanau mattau helayā ca prahasya vai | kathaṃ pṛcchasi bho daṇḍin mudrāṃ netuṃ kimicchasi || latāpatrādikaṃ caiva vartate taraṇau mama | niṣṭhuraṃ ca vacaḥ śrutvā satyaṃ bhavatu te vacaḥ || evamuktvā gataḥ śīghraṃ daṇḍī tasya samīpataḥ | kiyad dūre tato gatvā sthitaḥ sindhu samīpataḥ || gate daṇḍini sādhuśca kṛtanityakriyastadā | utthitāṃ taraṇīṃ dṛṣṭvā vismayaṃ paramaṃ yayau || dṛṣṭvā latādikaṃ caiva mūrcchito nyapatad bhuvi | labdhasaṃjño vaṇikputrastataścintānvitoʼbhavat || tadā tu duhituḥ kānto vacanaṃ cedamabravīt | kimarthaṃ kriyate śokaḥ śāpo dattaśca daṇḍinā || śakyate tena sarvaṃ hi kartuṃ cātra na saṃśayaḥ | atastaccharaṇaṃ yāmo vāñchitārtho bhaviṣyati || jāmāturvacanaṃ śrutvā tatsakāśaṃ gatastadā | dṛṣṭvā ca daṇḍinaṃ bhaktyā natvā provāca sādaram || kṣamasva cāparādhaṃ me yaduktaṃ tava sannidhau | evaṃ punaḥ punarnatvā mahāśokākuloʼbhavat || provāca vacanaṃ daṇḍī vilapantaṃ vilokya ca | mā rodīḥ śṛṇu madvākyaṃ mama pūjābahirmukhaḥ || mamājñayā ca durbuddhe labdhaṃ duḥkhaṃ muhurmuhuḥ | tacchrutvā bhagavadvākyaṃ stutiṃ kartuṃ samudyataḥ || sādhuruvāca | tvanmāyāmohitāḥ sarve brahmādyāstridivaukasaḥ | na jānanti guṇān rūpaṃ tavāścaryamidaṃ prabho || mūḍhoʼhaṃ tvāṃ kathaṃ jāne mohitastava māyayā | prasīda pūjayiṣyāmi yathāvibhavavistaraiḥ || purā vittaṃ ca tat sarvaṃ trāhi māṃ śaraṇāgatam | śrutvā bhaktiyutaṃ vākyaṃ parituṣṭo janārdanaḥ || varaṃ ca vāñchitaṃ dattvā tatraivāntardadhe hariḥ | tato nāvaṃ samārūhya dṛṣṭvā vittaprapūritām || kṛpayā satyadevasya saphalaṃ vāñchitaṃ mama | ityuktvā svajanaiḥ sārdhaṃ pūjāṃ kṛtvā yathāvidhi || harṣeṇa cābhavat pūrṇaḥ satyadevaprasādataḥ | nāvaṃ saṃyojya yatnena svadeśagamanaṃ kṛtam || sādhurjāmātaraṃ prāha paśya ratnapurīṃ mama | dūtaṃ ca preṣayāmāsa nijavittasya rakṣakam || tatoʼsau nagaraṃ gatvā sādhubhāryāṃ vilokya ca | provāca vāñchitaṃ vākyaṃ natvā baddhāñjalistadā || nikaṭe nagarasyaiva jāmātrā sahito vaṇik | āgato bandhuvargaiśca vittaiśca bahubhiryutaḥ || śrutvā dūtamukhādvākyaṃ mahāharṣavatī satī | satyapūjāṃ tataḥ kṛtvā provāca tanujāṃ prati || vrajāmi śīghramāgaccha sādhusandarśanāya ca | iti mātṛvacaḥ śrutvā vrataṃ kṛtvā samāpya ca || prasādaṃ ca parityajya gatā sāʼpi patiṃ prati | tena ruṣṭāḥ satyadevo bhartāraṃ taraṇiṃ tathā || saṃhṛtya ca dhanaiḥ sārdhaṃ jale tasyāvamajjayat | tataḥ kalāvatī kanyā na vilokya nijaṃ patim || śokena mahatā tatra rudantī cāpatad bhuvi | dṛṣṭvā tathāvidhāṃ nāvaṃ kanyāṃ ca bahuduḥkhitām || bhītena manasā sādhuḥ kimāścaryamidaṃ bhavet | cintyamānāśca te sarve babhūvustarivāhakāḥ || tato līlāvatī kanyāṃ dṛṣṭvā sā vihvalāʼbhavat | vilalāpātiduḥkhena bhartāraṃ cedamabravīta || idānīṃ naukayā sārdhaṃ kathaṃ soʼbhūdalakṣitaḥ | na jāne kasya devasya helayā caiva sā hṛtā || satyadevasya māhātmyaṃ jñātuṃ vā kena śakyate | ityuktvā vilalāpaiva tataśca svajanaiḥ saha || tato līlāvatī kanyāṃ krauḍe kṛtvā ruroda ha | tataḥ kalāvatī kanyā naṣṭe svāmini duḥkhitā || gṛhītvā pāduke tasyānugatuṃ ca manodadhe | kanyāyāścaritaṃ dṛṣṭvā sabhāryaḥ sajjano vaṇik || atiśokena santaptaścintayāmāsa dharmavit | hṛtaṃ vā satyadevena bhrāntoʼhaṃ satyamāyayā || satyapūjāṃ kariṣyāmi yathāvibhavavistaraiḥ | iti sarvān samāhūya kathayitvā manoratham || natvā ca daṇḍavad bhūmau satyadevaṃ punaḥ punaḥ | tatastuṣṭaḥ satyadevo dīnānāṃ paripālakaḥ || jagāda vacanaṃ cainaṃ kṛpayā bhaktavatsalaḥ | tyaktvā prasādaṃ te kanyā patiṃ draṣṭuṃ samāgatā || atoʼdṛṣṭoʼbhavattasyāḥ kanyakāyāḥ patirdhruvam | gṛhaṃ gatvā prasādaṃ ca bhuktvā sāʼʼyāti cetpunaḥ || labdhabhartrī sutā sādho bhaviṣyati na saṃśayaḥ | kanyakā tādṛśaṃ vākyaṃ śrutvā gaganamaṇḍalāt || kṣipraṃ tadā gṛhaṃ gatvā prasādaṃ ca bubhoja sā | paścāt sā punarāgatya dadarśa svajanaṃ patim || tataḥ kalāvatī kanyā jagāda pitaraṃ prati | idānīṃ ca gṛhaṃ yāhi vilambaṃ kuruṣe katham || tacchrutvā kanyakāvākyaṃ santuṣṭoʼbhūdvaṇiksutaḥ | pūjanaṃ satyadevasya kṛtvā vidhividhānataḥ || dhanairbandhugaṇaiḥ sārdhaṃ jagāma nijamandiram | paurṇamāsyāṃ ca saṅkrāntau kṛtavān satyasya pūjanam || ihaloke sukhaṃ bhuktvā cānte satyapuraṃ yayau || || iti śrīskandapurāṇe revākhaṇḍe śrīsatyanārāyaṇavratakathāyāṃ caturthoʼdhyāyaḥ ||

Chapter 5, verses 1-24

सूत उवाच । अथान्यच्च प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः । आसीत् तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः । एकदा स वनं गत्वा हत्वा बहुविधान् पशून् ॥ आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम् । गोपाः कुर्वन्ति सन्तुष्टा भक्तियुक्ताः स बान्धवाः ॥ राजा दृष्ट्वा तु दर्पेण न गतो न ननाम सः । ततो गोपगणाः सर्वे प्रसादं नृपसन्निधौ ॥ संस्थाप्य पुनरागत्य भुक्त्वा सर्वे यथेप्सितम् । ततः प्रसादं सन्त्यज्य राजा दुःखमवाप सः ॥ तस्य पुत्रशतं नष्टं धनधान्यादिकं च यत् । सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम् ॥ अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् । मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ ॥ ततोऽसौ सत्यदेवस्य पूजां गोपगणैः सह । भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृपः ॥ सत्यदेवप्रसादेन धनपुत्रान्वितोऽभवत् । इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥ य इदं कुरुते सत्यव्रतं परमदुर्लभम् । शृणोति च कथां पुण्यां भक्तियुक्तः फलप्रदाम् ॥ धनधान्यादिकं तस्य भवेत् सत्यप्रसादतः । दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात् ॥ भीतो भयात् प्रमुच्येत सत्यमेव न संशयः । ईप्सितं च फलं भुक्त्वा चान्ते सत्यपुरं व्रजेत् ॥ इति वः कथितं विप्राः सत्यनारायणव्रतम् । यत् कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ विशेषतः कलियुगे सत्यपूजा फलप्रदा । केचित् कालं वदिष्यन्ति सत्यमीशं तमेव च ॥ सत्यनारायणं केचित् सत्यदेवं तथापरे । नानारूपधरो भूत्वा सर्वेषामीप्सितप्रदम् ॥ भविष्यति कलौ सत्यव्रतरूपी सनातनः । श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम् ॥ य इदं पठते नित्यं शृणोति मुनिसत्तमाः । तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः ॥ व्रतं यैस्तु कृतं पूर्वं सत्यनारायणस्य च । तेषां त्वपरजन्मानि कथयामि मुनीश्वराः ॥ शतानन्दो महाप्राज्ञः सुदामा ब्राह्मणो ह्यभूत् । तस्मिञ्जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह ॥ काष्ठभारवहो भिल्लो गुहराजो बभूव ह । तस्मिञ्जन्मनि श्रीरामं सेव्य मोक्षं जगाम वै ॥ उल्कामुखो महाराजो नृपो दशरथोऽभवत् । श्रीरङ्गनाथं सम्पूज्य श्रीवैकुण्ठं तदागमत् ॥ धार्मिकः सत्यसन्धश्च साधुर्मोरध्वजोऽभवत् । देहार्धं क्रकचैश्छित्त्वा दत्त्वा मोक्षमवाप ह ॥ तुङ्गध्वजो महाराजः स्वायम्भुवोऽभवत् किल । सर्वान् भागवतान् कृत्वा श्रीवैकुण्ठं तदाऽगमत् ॥ भूत्वा गोपाश्च ते सर्वे व्रजमण्डलवासिनः । निहत्य राक्षसान् सर्वान् गोलोकं तु तदा ययुः ॥ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां पञ्चमोऽध्यायः ॥

sūta uvāca | athānyacca pravakṣyāmi śruṇudhvaṃ munisattamāḥ | āsīt tuṅgadhvajo rājā prajāpālanatatparaḥ || prasādaṃ satyadevasya tyaktvā duḥkhamavāpa saḥ | ekadā sa vanaṃ gatvā hatvā bahuvidhān paśūn || āgatya vaṭamūlaṃ ca dṛṣṭvā satyasya pūjanam | gopāḥ kurvanti santuṣṭā bhaktiyuktāḥ sa bāndhavāḥ || rājā dṛṣṭvā tu darpeṇa na gato na nanāma saḥ | tato gopagaṇāḥ sarve prasādaṃ nṛpasannidhau || saṃsthāpya punarāgatya bhuktvā sarve yathepsitam | tataḥ prasādaṃ santyajya rājā duḥkhamavāpa saḥ || tasya putraśataṃ naṣṭaṃ dhanadhānyādikaṃ ca yat | satyadevena tatsarvaṃ nāśitaṃ mama niścitam || atastatraiva gacchāmi yatra devasya pūjanam | manasā tu viniścitya yayau gopālasannidhau || toʼsau satyadevasya pūjāṃ gopagaṇaiḥ saha | bhaktiśraddhānvito bhūtvā cakāra vidhinā nṛpaḥ || satyadevaprasādena dhanaputrānvitoʼbhavat | ihaloke sukhaṃ bhuktvā cānte satyapuraṃ yayau || ya idaṃ kurute satyavrataṃ paramadurlabham | śṛṇoti ca kathāṃ puṇyāṃ bhaktiyuktaḥ phalapradām || dhanadhānyādikaṃ tasya bhavet satyaprasādataḥ | daridro labhate vittaṃ baddho mucyeta bandhanāt || bhīto bhayāt pramucyeta satyameva na saṃśayaḥ | īpsitaṃ ca phalaṃ bhuktvā cānte satyapuraṃ vrajet || iti vaḥ kathitaṃ viprāḥ satyanārāyaṇavratam | yat kṛtvā sarvaduḥkhebhyo mukto bhavati mānavaḥ || viśeṣataḥ kaliyuge satyapūjā phalapradā | kecit kālaṃ vadiṣyanti satyamīśaṃ tameva ca || satyanārāyaṇaṃ kecit satyadevaṃ tathāpare | nānārūpadharo bhūtvā sarveṣāmīpsitapradam || bhaviṣyati kalau satyavratarūpī sanātanaḥ | śrīviṣṇunā dhṛtaṃ rūpaṃ sarveṣāmīpsitapradam || ya idaṃ paṭhate nityaṃ śṛṇoti munisattamāḥ | tasya naśyanti pāpāni satyadevaprasādataḥ || vrataṃ yaistu kṛtaṃ pūrvaṃ satyanārāyaṇasya ca | teṣāṃ tvaparajanmāni kathayāmi munīśvarāḥ || śatānando mahāprājñaḥ sudāmā brāhmaṇo hyabhūt | tasmiñjanmani śrīkṛṣṇaṃ dhyātvā mokṣamavāpa ha || kāṣṭhabhāravaho bhillo guharājo babhūva ha | tasmiñjanmani śrīrāmaṃ sevya mokṣaṃ jagāma vai || ulkāmukho mahārājo nṛpo daśarathoʼbhavat | śrīraṅganāthaṃ sampūjya śrīvaikuṇṭhaṃ tadāgamat || dhārmikaḥ satyasandhaśca sādhurmoradhvajoʼbhavat | dehārdhaṃ krakacaiśchittvā dattvā mokṣamavāpa ha || tuṅgadhvajo mahārājaḥ svāyambhuvoʼbhavat kila | sarvān bhāgavatān kṛtvā śrīvaikuṇṭhaṃ tadāʼgamat || bhūtvā gopāśca te sarve vrajamaṇḍalavāsinaḥ | nihatya rākṣasān sarvān golokaṃ tu tadā yayuḥ || || iti śrīskandapurāṇe revākhaṇḍe śrīsatyanārāyaṇavratakathāyāṃ pañcamoʼdhyāyaḥ ||

Original text: public domainTranslation & transliteration © YatraBeyond

Sourced and cross-checked against two independent sources; our meanings are written in our own words, never copied. Personal, devotional use — including printing and sharing short excerpts with attribution — is free and encouraged.

Everything on Vishnu Ji